________________
२९९
तत्त्वबोधिनीविवृतिविभूषितम् व्यपदेशसम्भवात् , धर्मिण एकत्वप्रतीत्यर्थं तत्रान्वयद्रव्यार्थिकोऽपेक्षणीय इति चेत् ? न-'पत्रस्य नीलता, तैलस्य धारा' इत्यादाविव धर्मिण एकत्वस्याप्यौपचारिकस्य पर्यायार्थिकेनाश्रयणात् । एवं सति एकत्वसापेक्षानेकत्वग्राहकोऽशुद्धपर्यायार्थिकोऽप्यतिरिच्यतेति चेत् ? अतिरिच्यतां नाम नास्माकमनुपपत्तिः, नहि वयं भवानिव दशभेदमेव द्रव्यार्थिक षड्भेदमेव च पर्यायार्थिकं प्रसिद्धनयविलक्षणभेदमभ्युप'इदं द्रव्यं नानाधर्मवद्' इति व्यवहारस्य अस्मिन् द्रव्ये एते नानाधर्माः' इति व्यवहारस्य वा सम्भवादित्यर्थः । ननु यद्यपि नानाधर्माः क्रमोत्पन्नाः पर्यायार्थिकनयगोचरास्तथापि धर्मिद्रव्यं तत्रैकत्वेनावभासमानं द्रव्यार्थिकनयविषय एवेति धर्मिणो द्रव्यस्यैकत्वप्रतिपत्तये द्रव्यार्थिकनयोऽपेक्षणीय इत्येतावता द्रव्यार्थिकेनैकस्मिन् द्रव्यधर्मिण्यनेकस्वभावत्वयोजनं युक्तमेवेति शङ्कते-धर्मिण इति समाधत्ते-नेति । "पत्रस्य नीलत' इति स्थाने 'पत्रस्य नीरन्ध्रता' इति पाठो युक्तः, न ह्येकस्य पत्रस्यातिनिबिडसंयोगलक्षणं नीरन्ध्रत्वं सम्भवति, ततस्तत्र बहुषु पत्रेषूपचरितमेकत्वमुपादाय तथाव्यवहारः, एवं तैलस्य धारेत्यत्राविच्छेदेनानेकतैलक्रियाविशेषलक्षणधारैकस्य तैलस्य सम्भवतीति बहुषु तैलेधूपचरितमेकत्वमुपादाय तथा व्यपदेशः, पत्रस्य नीलतेति पाठप्रामाण्ये तु दूरत उपलभ्यमानेषु हरितधर्मेष्वपि पत्रेषु परस्परातिसान्निध्यप्रयुक्ता नीलताऽवभासते, न तु दूरादपि एकस्मिन् पत्रे प्रतीयमाने तत्र नीलतावगतिरस्तीत्यतस्तदानीं तथा व्यपदेशोऽनेकेषु पत्रेषूपचरितमेकत्वं समात्रित्यैव, तथा प्रकृतेऽपि धर्मिण एकत्वस्याऽप्यौपचारिकस्य पर्यायार्थिकेन समाश्रयणादेकस्मिन् धर्मिण्यनेकत्वस्वभावयोजनं सम्भवतीति न मनागपि द्रव्यार्थिकनयापेक्षेत्यर्थः । नन्वेकत्वस्यान्यनयगोचरस्य पर्यायार्थिकेनाश्रयणे तस्य पर्यायस्य तथा ग्रहणस्याशुद्धत्वेऽशुद्धपर्यायार्थिकनयोऽयं शुद्धपर्यायार्थिनयातिरिक्तः प्रसज्यत इत्याशङ्कतेएवं सतीति-एकस्मिन्ननेकस्वभावत्वयोजनस्य पर्यायार्थिकनयतोऽभ्युपगमे सतीत्यर्थः। समाधत्ते-अतिरिच्यतां नामेति । पर्यायाणां विषयाणामानन्त्यात् पर्यायार्थिकस्यावान्तरभेदा अनन्ता एवेति तत्रायमपि भेदः सम्भवतीति तथाऽभ्युपगच्छतो मम न काचिदनुपपत्तिः, भवांस्तु द्रव्यार्थिकं दशविधमेव पर्यायार्थिकं षडिधमेवेत्येवमभ्युपगच्छतीति तस्य भवत उक्तातिरिक्तपर्यायार्थिकनयप्राप्तौ स्यादेव प्रतिज्ञातानुपपत्तिरित्याशयेनाह-नहीति-अस्य 'अभ्युपगच्छामः' इत्यनेनान्वयः। प्रसिद्धनयविलक्षणभेदं