________________
२९८ अनेकान्तव्यवस्थाप्रकरणम् । नियत्रितधर्माः स्वभावा इति भवतोऽभिप्रायः, ओमिति चेत् ? तर्हि चैतन्या-ऽचैतन्यमूर्तत्वा-ऽमूर्तत्वादीनां कथं गुणमध्ये परिगणनयाऽपि स्वभावनययोजनिकाभिहिता सापि न सर्वा सिद्धान्तानुपातिनी, अन्वयद्रव्यार्थिकेनानेकस्वभावत्वयोजनस्याघटमानत्वात्, प्रतीत्यसमुत्पादसमुत्पन्नानेकधर्मस्वभावत्वस्य पर्यायार्थिकेनैव ग्रहणात् , तन्मत एव क्रमिकनानाधर्मग्राहिप्रत्यक्षानन्तरं तेष्वनेकत्वविकल्पोत्पादेन तथा
इति दिगम्बर आह-ओमिति चेदिति । तर्हि अस्तित्व-वस्तुत्व-प्रमेयत्वादीनां सर्वत्र विधेरेव भावाद् भवतु भवदभिप्रायेण गुणत्वं चैतन्यस्यात्मनि विधिः पुद्गलादौ प्रतिषेधः, अचैतन्यस्य पुद्गलादौ विधिर्जीवे प्रतिषेधः, मूर्तत्वस्य पुद्गले विधिः पुद्गलभिन्ने सर्वत्र प्रतिषेधः, अमूर्तत्वस्य धर्मादौ प्रतिषेध इत्येवं विधि-प्रतिषेधान्यतरनियन्त्रितधर्मागां चेतनत्वादीनां स्वभावत्वमेव भवेन्न गुणत्वमिति तेषां गुणमध्ये यत् परिगणनं भवता कृतं तत् कथं सङ्गतं स्यादिति समाधत्ते-तहीति। 'परिगणनयापि' इति स्थाने 'परिगणनम् , यापि' इति पाठो युक्तः । स्वभावनययोजनाऽपि दैगम्बरीया न युक्तेत्याह-याऽपीति । साऽपि स्वभावनययोजनिकाऽपि । कथं न सा सर्वसिद्धान्तानुपातिनीत्यपेक्षायामाह-अन्वयद्रव्यार्थिकेनेति- अन्वयद्रव्यार्थिकेनैकस्याप्यनेकद्रव्यस्वभावत्वमित्येवं स्वभावनययोजनिका याऽभिहिता तस्या अघटमानत्वमनेन दयते । अन्वयद्रव्यार्थिको हि पूर्वापरपर्यायानुगतं द्रव्यमभ्युपगन्तुमर्हति, तत्र पूर्वपूर्वद्रव्येणोत्तरोत्तरं यद् द्रव्यमुत्पद्यते तत् , ततश्च ये समुत्पन्ना धर्मास्ते च पर्यायार्थिकनयगोचरा इति तादृशानेकधर्मस्वभावत्वमपि पर्यायार्थिकेनैव गृह्यते, न तु द्रव्यार्थिकेन, तेन तु ध्रौव्यग्राहिणोत्पादस्य ग्रहणाभावे उत्पन्नधर्मस्याप्यग्रहणादित्याहप्रतीत्येति-मृद्रव्यं प्रतीत्य स्थासस्य समुत्पादः, स्थासं प्रतीत्य कोशस्य समुत्पादः, कोशं प्रतीत्य कुशूलस्योत्पाद इत्येवं यः प्रतीत्यसमुत्पादः, तेन प्रतीत्यसमुत्पादेन समुत्पन्ना ये मृद्रव्यगताः स्थासत्व-कोशत्व-कुशूलत्वादयोऽनेकधर्मास्ते पर्यायनयगोचरा इति तत्स्वभावत्वस्य पर्यायार्थिकेनैव ग्रहणादित्यर्थः पर्यायार्थिकेनैव तथास्वभावत्वयोजनस्य घटमानत्वमावेदयति-तन्मत एवेति-पर्यायार्थिकनयमत एवेत्यर्थः । ऋमिकेति-क्रमोत्पन्ना ये नानाधर्मास्तद्वाहि यत् प्रत्यक्षं तदपि क्रमिकं तदनन्तरम् , तेषु क्रमिकनानाधर्मेषु, अनेकत्वविकल्पस्यानेकत्वप्रकारकविकल्पस्योत्पादेन, तथा व्यपदेशस्य