________________
तत्त्वबोधिनीविवृतिविभूषितम्
२९७. यथोक्तसङ्ख्यग्रहणेऽपि प्रमेयत्ववदभिधेयत्वादेरपि त्यागे बीजाभावात् । किश्च, द्रव्यत्वं यदि गुणः, पर्यायत्वं कुतो न गुणः, द्वयोस्तुल्याश्रयत्वात् , एवं सामान्यत्व-विशेषत्वादावपि पर्यनुयोगो विधेयः । वस्तुत्वकुक्षावेव सामान्य-विशेषप्रवेशान्न तदाधिक्यमिति चेत्, वस्तुत्वं यथा सामान्य-विशेषात्मकत्वं तथा द्रव्य-पर्यायात्मकत्वमपि किं न स्यात् , जात्यन्तरात्मके हि वस्तुनि प्रामाणिकसर्वधर्मात्मकत्वं सुवचमेव । किञ्च, स्वभावा अपि गुण-पर्यायातिरिक्ताः के नाम ? ये पृथगुद्दिष्टाः, धर्मापेक्षया स्वभावा गुणा न भवन्तीति ते पृथगुद्दिष्टा इति चेत् ? तत् किं विध्येकनियमितस्वभावा धर्मा गुणाः, विधि-प्रतिषेधान्यतर
इति गुणतया सामान्य-विशेषत्वादीनां ग्रहणं किं न क्रियते इत्याह-किश्चेति । पर्यनुयोगः सामान्यत्व-विशेषत्वादिकं कुतो न गुण इति प्रश्नः । वस्तुत्वं गुणतयोपदर्शितमेव, तच्छरीर एव सामान्य-विशेषोभयं प्रविष्टमिति न सामान्य-विशेषावुपादाय गुणानामाधिक्यमित्युत्तरमाशङ्कते-वस्तुत्वकुक्षावेवेति । तदाधिक्यं सामान्यत्व-विशेषत्वात्मिकगुणाधिक्यम्। यदि वस्तुत्वात्मकगुणशरीरप्रविष्टत्वान्न सामान्यत्व-विशेषत्वयोर्गुणान्तरत्वं तर्हि द्रव्यत्वस्यापि वस्तुत्वशरीरप्रविष्टत्वाद् गुणान्तरत्वं न भवेत् , एवं धर्ममात्रस्यानन्तधर्मात्मकत्वलक्षणशरीरप्रविष्टत्वाद् गुणान्तरत्वं न स्यात् , किन्त्वेकमेव वस्तुत्वं गुणः स्यादिति समाधत्ते-वस्तुत्वं यथेति । कथं द्रव्यपर्यायात्मकत्वं वस्तुत्वमित्यपेक्षायामाह-जात्यन्तरात्मके हीति । गुण-पर्यायव्यतिरिक्तानां स्वभावानामपि प्रमाणत उपपादयितुमशक्यत्वात् तद्विशेषोपवर्णनमपि न सङ्गतमित्याह-किश्चेति । कश्चिद् धर्मः स्वभावः, कश्चित् तु धर्मो गुण इत्येवं धर्मविशेषात्मकस्य स्वभावस्य धर्मविशेषात्मकगुणतो भिन्नत्वमिति शङ्कते-धर्मापेक्षयेति । ते स्वभावाः । पृथगुद्दिष्टाः गुणेभ्यो भिन्नतयाऽभिहिताः। सिद्धान्ती परं पृच्छति-तत् किमिति । विध्येकनियमितेति-येषां धर्माणां विधिरेव भवति, न तु प्रतिषेधस्ते विध्येकनियमितस्वभावा धर्मा गुणाः, येषां तु धर्माणां विधिनिषेधश्च भवतस्ते धर्मा विधि-प्रतिषेधान्यतरनियन्त्रिताः खभावा इत्येवं किं भवतो दिगम्बरस्याभिप्राय इत्यर्थः । य एव भवतोपदर्शितः स एव ममाभिप्राय