________________
२९६ अनेकान्तव्यवस्थाप्रकरणम् । पर्यायानतिरेके गुण-स्वभावभेदकल्पनायां प्रमाणाभावात् , सहभावित्वक्रमभावित्वभेदविवक्षया गुण-पर्यायभेदोक्तिसम्भवेऽपि सहभाविनामपि धर्माणामानन्त्याद् यथोक्तेयत्ताक्षतेः, द्रव्यव्यवस्थाहेतोश्चोपयोगादिगुणानां यथासूत्रं प्रत्येकमेव ग्रहणौचित्यात् , स्थूलव्यवहारेण
मात्रम्' इत्यनेन प्रमाणशून्यत्वं सूचितम् । वातूलेति-वातसमूहेन तरलं क्वचिदप्यवस्थितिमलभमानमतिचञ्चलं यदर्कस्य वृक्षविशेषस्य तूलं तत्सदृशम् , युक्तिसमष्टिलक्षणवातसमूहेन शीघ्रमेवानन्तरोपवर्णितं दिगम्बरमतं दूरप्रक्षिप्तं भविष्यतीत्यर्थः । तत्खण्डनयुक्तिमुपढौकयति-गुणानामेवेति । पर्यायानतिरेके पर्यायाभेदे, गुणा यदि पर्यायतो भिन्ना भवेयुः स्यात् तदा तेषां स्वभावभेदकल्पना प्रमाणत उपपन्ना, पर्यायभिन्नानां गुणानां प्रमाणाभावादभावे निराश्रितस्वभावकल्पनाया अपि प्रमाणाभावादसम्भव इत्यर्थः, यदि च सहभाविनो धर्मा गुणाः क्रमभाविनो धर्माः पर्याया इत्येवं गुण-पर्याययोर्भेद इति विभाव्यते तर्हि सहभाविधर्माणामानन्त्यात् तत्स्वरूपाणां गुणानामप्यानन्त्यादुक्तदिशेयत्तया तेषां परिगणनं सुतरामसङ्गतं दिगम्बराणामित्याह-सहभावित्वेति। यो द्रव्यव्यवस्थाहेतुः स गुण इत्यतो जीवादिद्रव्यव्यवस्थाहेतुत्वादुपयोगादिगुणानां प्रत्येकमेव ग्रहणमुचितं भवेत् , तथा च जीवद्रव्यव्यवस्थाहेतुरुपयोगः, पुद्गलद्रव्यव्यवस्थाहेतुः स्पर्शी रूपं वा, धर्मद्रव्यव्यवस्थाहेतुर्गतिहेतुत्वम् , अधर्मद्रव्यव्यवस्थाहेतुः स्थितिहेतुत्वम् , आकाशद्रव्यव्यवस्थाहेतुरवगाहस्वभावत्वम् , कालद्रव्यव्यवस्थाहेतुर्वर्तनेत्येवं कतिपयगुणपरिगणनमेवोचितं न त्वस्तित्वादिगुणानां परिसङ्ख्यानमपि कार्यमित्याह-द्रव्यव्यवस्थाहेतोश्चेति । यथासूत्रमिति" उपयोगलक्षणो जीवः " " रूपिणः पुद्गलाः” [ तत्त्वार्थ० अ० सू० ] इत्यादि सूत्रमनतिकम्येत्यर्थः । यदि च अस्ति, नास्ति, चेतनः, अचेतनः, मूर्तम् , अमूर्तम् , इत्यादिस्थूलव्यवहारेणास्तित्वादीनामभिहितसङ्ख्यकानां ग्रहणं तर्हि यथा 'अस्ति घटः' 'प्रमेयो घटः' इत्यादिव्यवहारस्तथा 'अभिधेयो घटः, पदार्थों घटः, विषयो घटः, भावो घटः' इत्यादिरपि स्थूलव्यवहारः समस्तीत्यभिधेयत्वादीनामपि गुणतया परिगणनमुचितमेव, तत्परित्यागो निर्बीज एव भवेदित्याह-स्थूलव्यवहारेणेति। एवं द्रव्यवृत्तित्वाद् यदि द्रव्यत्वं गुणतया भवद्भिः परिभाष्यते तदा द्रव्यस्य स्वपयोयेण सह कथञ्चिदभेदात् पर्यायत्वमपि द्रव्यवृत्तीति कुतो न तत्तथा परिभाष्यते, तथा सामान्य-विशेषोभयाद्यात्मके द्रव्ये सामान्यत्व-विशेषत्वादिकमपि वर्तत