________________
तत्त्वबोधिनीविवृतिविभूषितम् व्यञ्जनपर्याया जीवस्य नर-नारकादयः १, स्वभावद्रव्यव्यञ्जनपर्यायाश्चरमशरीरात् किञ्चिन्न्यूनसिद्धपर्यायाः २, विभावगुणव्यञ्जनपर्याया मत्यादयः ३, स्वभावगुणव्यञ्जनपर्याया अनन्तचतुष्टयरूपा जीवस्य ४, पुद्गलस्य तु व्यणुकादयो विभावद्रव्यव्यञ्जनपर्यायाः५, रसरसान्तर-गन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्यायाः ६, अविभागिपुद्गलपरमाणवः स्वभावद्रव्यव्यञ्जनपर्यायाः ७, वर्ण-गन्ध-रसैकैकाविरुद्धस्पर्शद्वयं च स्वभावगुणव्यञ्जनपर्याया ८ इति ।
"अनाद्यनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमन्जन्ति, जल(कूल)कल्लोलवज्जले ॥१॥ धर्मा-ऽधर्म-नभ:-काला, अर्थपर्यायगोचराः । व्यञ्जनेन तु सम्बद्धौ, द्वावन्यौ जीवपुद्गलौ ॥ २॥"
[इति पर्यायाधिकारः] इति । तदेतत् स्वकपोलकल्पनामानं वातूलतरलार्कतूलतुल्यम् , गुणानामेव ज्ञाना-ऽनन्तदर्शना-ऽनन्तसुखा-ऽनन्तवीर्यस्वरूपा जीवस्य ज्ञेयाः,ज्ञानादिगुणस्य स्वभावभूता एव ते तथाशब्दप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्यायाः । विभावद्रव्यव्यञ्जनपर्याया इति व्याख्यातमेव। पुद्गलाणुद्वयद्रव्यस्कन्धो घणुकः, पुद्गलाणुत्रयद्रव्यस्कन्धस्त्यणुक इत्येवं ये घ्यणुकादयस्ते पुद्गलस्य विभावद्रव्यव्यञ्जनपर्यायाः, तेषां विभावत्वव्यञ्जनपर्यायत्वे पूर्ववद् भावनीये । रसरसान्तरेत्यादिग्रन्थोऽपि व्याख्यातकल्पत्वात् सुखावबोधो न व्याख्यानमपेक्षते । अनाद्यनिधने अनुत्पन्नाविनाशिनि । उन्मजन्ति उत्पद्यन्ते । निमजन्ति विलीयन्ते। जलकल्लोलवजले यथा जले कल्लोलास्तरङ्गाः प्रतिक्षणमुत्पद्यन्ते नश्यन्ति च तथेत्यर्थः । अर्थपर्यायगोचराः प्रतिक्षणभाविनोऽर्थपर्याया एव धर्मादीनां भवन्ति, न तु व्यञ्जनपर्यायाः। अन्यौ धर्मादिभ्यो मिन्नौ । व्यञ्जनेन सम्बद्धौ व्यञ्जनपर्यायवन्तौ । 'इत्थं च यद् दिगम्बरैः परिभाष्यन्ते' इत्यारभ्य 'इति' इत्यन्तग्रन्थेन गुण-पर्यायभेदव्यवस्थापन दिगम्बराभिमतमुपदर्य तत्खण्डनं करोति-तदेतदित्यादिना । 'खकपोलकल्पना