________________
२९४ अनेकान्तव्यवस्थाप्रकरणम् । लाणोरुपचारतो नानाप्रदेशत्वम् , न च कालाणोः स्निग्धरूक्षत्वाभावात् , अरूक्षत्वाच्चाणोरमूर्तकालस्य चैकविंशतितमो भावो न स्यात् , परोक्षप्रमाणापेक्षयासद्भूतव्यवहारेणाप्युपचारेणामूर्तत्वम् १७, पुद्गलस्य शुद्धा-ऽशुद्धद्रव्यार्थिकेन विभावस्वभावत्वं १८, शुद्धद्रव्यार्थिकेन शुद्धस्वभावः १९, अशुद्धद्रव्यार्थिकेनाशुद्धस्वभावः २०, उपचारितस्वभावश्वासद्भूतव्यवहारेणेति २१ ॥
गुणविकाराः पर्यायाः, ते द्वेधा-स्वभाव-विभावभेदात्, स्वभावपर्यायाः षड् वृद्धिरूपाः षट् च हानिरूपा इति द्वादश । विभावद्रव्य
प्रदेशत्वमवसेयमित्याह-पुद्गलाणोरिति । न च इत्यारभ्य 'उपचारेणामूर्तत्वम्' इत्यन्तो ग्रन्थस्तु किञ्चित् त्रुटितांशकोऽधिकांशोपेतो वा भविष्यतीति चिन्त्यम् । 'पुदलस्य' इत्यादिग्रन्थस्तूत्तानार्थः । पर्यायान् निरूपयति-गुणविकारा इति । ते पर्यायाः। विभावेति-विभावः स्वभावस्यान्यथाभवनम् , तद्रूपा ये द्रव्यस्य व्यञ्जनपर्यायास्ते जीवस्य नर-नारकादयः, पूर्वभवे यादृक् स्वभावो जीवस्य ततोऽन्यथाभवनमुत्तरभवे, यथा पूर्व देवस्वभावः, तं स्वभावं परित्यज्योत्तरभवे नरत्वादिस्वभावभवनविभाव इति गीयते, स च विभावो नरादिशब्दप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्याय इत्यर्थः । स्वभावेति-द्रव्यस्य व्यञ्जनपर्याया द्रव्यव्यञ्जनपर्यायाः, स्वभावाश्च ते द्रव्यव्यञ्जनपर्यायाश्च स्वभावद्रव्यव्यञ्जनपर्यायाः, ते चरमशरीरात् किञ्चिन्यूनसिद्धपर्यायाः, यादृक्संस्थानविशेषस्वभावो जीवश्चरमशरीरे चरमशरीरप्रमाणः ततः किञ्चिन्यूनसंस्थानप्रमाणः सिद्धपर्यायो भवति, स च न्यूनत्वेऽपि पूर्वस्वभावाभिन्न एव न ततोऽन्यथाभवनमिति न स विभावः, स च स्वभावः, सिद्धपदप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्यायः । विभावेति-गुणस्य व्यञ्जनपर्याया गुणव्यञ्जनपर्यायाः, विभावाश्च ते गुण-व्यञ्जनपर्याया विभावगुणव्यञ्जनपर्यायाः ते मत्यादयः, ज्ञानगुणस्य ज्ञेयमात्रविषयकत्वं स्वभावः ततः प्रतिनियतविषया मत्यादयोऽन्यथा भवन्तीति विभावाः, ते सर्वदा नावतिष्ठन्ते, यदा सन्ति तदा मत्यादिशब्दानां प्रवृत्तिनिमित्ततामुपयान्तीति व्यञ्जनपर्यायाः। स्वभावेति-गुणस्य व्यञ्जनपर्याया गुणव्यञ्जनपर्यायाः, स्वभावाश्च ते गुण-व्यञ्जनपर्यायाश्च स्वभावगुणव्यञ्जनपर्यायाः, ते अनन्तचतुष्टयरूपा अनन्त