________________
तत्त्वबोधिनीविवृतिविभूषितम्
२९३ पुद्गलस्यैकविंशतितमो भावो न लभ्येतेति पुद्गलाणोः परोक्षप्रमाणापेक्षयाऽसद्भूतव्यवहारेणोपचारेणामूर्तत्वं स्वीकर्तव्यम् १५, परमभावग्राहकेण काल-पुद्गलाणूनामेकप्रदेशस्वभावत्वम् , भेदकल्पनानिरपेक्षेणेतरेषां च धर्मा-ऽधर्माऽऽकाश-जीवानामखण्डत्वादेकप्रदेशत्वम् १६, भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम् , पुद्ग
हानिरित्यत आह- एवं सतीति । पुद्गलस्योपचारादप्यमूर्तत्वस्याभावे सतीत्यर्थः । एकविंशतितम इति-'अस्तिखभावो नास्तिस्वभावः' इत्यादिनकविंशतिखभावानुपदृश्यानन्तरम् ‘एते जीव-पुद्गलयोरेकविंशतिः' इत्यनेनैकविंशतिः स्वभावः पुद्गले निर्धारिताः, सङ्ग्रहश्लोकोऽपि
“एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः।
धमोदीनां षोडश स्युः काले पञ्चदश स्मृताः ॥१॥" इति सङ्ग्राहकश्लोकस्तदुपष्टम्भको दर्शितः, एकविंशतिमध्ये चामूर्तत्वस्यापि गणनमिति तदप्येकविंशतिसङ्ख्यापूरकत्वादेकविंशतितमो भवति, अतोऽमूर्तत्वस्योपचारतोऽपि पुद्गलेऽभावे एकविंशतितमो भावो न लभ्येत; अथवाऽमूर्तत्वस्य पुद्गलेऽभावे पुद्गलगतस्वभावपरिगणनाऽमूर्तत्वं विहायैवेति विंशतिरेव स्वभावास्तत्र स्युरेकविंशतितमश्च भावो न कोऽपि लभ्येतेत्येकविंशतिः स्वभावाः पुद्गलस्य न स्युः, इति एतस्मात् कारणात् , पुद्गलाणोः परोक्षप्रमाणापेक्षयाऽसद्भूतव्यवहारेणोपचारेणामूर्तत्वं खीकर्तव्यमित्यर्थः, युज्यते चैतत् , यतो. लोके यः पदार्थः प्रत्यक्षगम्यो न भवति परीक्षेणैव प्रतीयते सोऽमूर्त इति व्यवह्रियत इति । परमविरुद्धसमयलक्षणः कालाणुः पुद्गलाणवश्चैकप्रदेशस्वभावा एवेति परमभावग्राहकेण नयेन तेषामेकप्रदेशस्वभावत्वं सिद्ध्यतीत्याह-परमभावग्राहकेणेति । यद्यपि धर्मादीनामनेके प्रदेशाः सन्ति तथापि प्रदेशत्वेनैक्यमेव तेषामवगाहते, न तु भेदम् , एतादृशो यो नयस्तेन भेदकल्पनानिरपेक्षेण पुद्गलभिन्नानामपि धर्मादीनामखण्डत्वादेकदेशखभावत्वमेव सिद्ध्यतीत्याह-भेदकल्पनानिरपेक्षेणेति । इतरेषां पुद्गलभिन्नानाम् । येन नयेन प्रदेशानां भेदो विषयीक्रियते तेन भेदकल्पनासापेक्षेण नयेन धर्मादीनां नानाप्रदेशखभावत्वं सिद्ध्यतीत्याह-भेदकल्पनासापेक्षेणेति । चतुर्णामपि धर्मा-ऽधर्माऽऽकाशजीवानामपि । एकस्यापि पुद्गलाणोरुपचारतो भावप्रदेशानाश्रित्य नाना