________________
अनेकान्तव्यवस्थाप्रकरणम् ।
असद्भूतव्यवहारेण कर्म- नोकर्मणोरपि चेतनस्वभावः १२, परमभावग्राहकेण कर्म- नोकर्मणोरचेतनस्वभावः, जीवस्याप्यसद्भूतव्यवहारेणाऽचेतनस्वभावः १३, परमभावग्राह्केण कर्म-नोकर्मणोर्मूर्तस्वभावः, जीवस्याप्यसद्भूतव्यवहारेण मूर्तस्वभावः १४, परमभावग्राहकेण पुद्गलं विहायेतरेषाममूर्तस्वभावः, पुद्गलस्योपचारादपि नास्त्य - मूर्तत्वम्, मुख्यार्थबाधे सति तथाव्यवहाराभावात् एवं सति
२९२
2
नयविशेषेण जीवस्य चेतनस्वभावः सिद्ध्यतीत्यर्थः । असद्भूतेति - असद्भूतव्यवहारलक्षणोपनयविशेषेण कर्म-कर्मदेशयोश्चेतनस्वभावः सिद्ध्यति, कर्म- नोकर्मणोर्नास्त्येव चैतन्यमथापि तयोस्तदरोप्यत इत्यसद्भूतस्य कर्म- नोकर्मगतचैतन्यस्य ग्राहकत्वादसद्भूतव्यवहारत्वं बोध्यम् । यदेव यत्र वस्तु सत् तदेव परमभावग्राह केण नयेन गृह्यत इति कर्म-नोकर्मणोरचेतनस्वभाव एव परमस्वभाव इति स तथा ग्राहकेण नयेन सिद्ध्यतीत्याह-परमस्वभावग्राह केणेति । जीवश्चेतनस्वभाव एव, अथापि तस्याचेतनस्वभावोऽसद्भूतव्यवहारलक्षणोपनयविशेषेण गृह्यत इत्याह-जीवस्यापीति । कर्म-नोकर्मणोर्वस्तुगत्या मूर्तस्वभाव एव पौद्गलिकत्वात्, परमार्थस्वरूपग्राहकेण परमस्वभावग्राहिणा नयेन तयोर्मूर्तस्वभावः सिध्यतीत्याह - परमभावग्राहकेणेति । जीवस्यामूर्तस्यापि सतो मूर्तशरीरसम्बन्धादारोपितो मूर्तस्वभावः सोऽसद्भूतव्यवहारलक्षणोपनयविशेषेण सिद्ध्यतीत्याह - जीवस्यापीति । पुद्गलभिन्नानां सर्वेषामपि द्रव्याणां परमार्थतोऽमूर्तस्वभावः परमभावग्राहकेण नयेन सिद्ध्यतीत्याह - परमभावग्राहकेणेति । यथा जीवस्योपचाराश्रयणेनासद्भूतव्यवहारेण मूर्तत्वम्, न तथा पुद्गलस्यामूर्तत्वम्, यद्यपि मूर्तपदस्य मुख्योऽर्थो रूपवत्त्वलक्षणो यथा जीवे बाधितः तथा पुद्गलेऽप्यमूर्तपदस्य मुख्योऽर्थो रूपवत्त्वविरहलक्षणो बाधितः, तथापि जीवो मूर्तत्वेन व्यवह्रियत इति तत्र तस्योपचार आश्रीयते, पुद्गलस्तु नामूर्ततया व्यवह्रियत इति न तत्र तस्योपचाराश्रयणम्, किन्तु पुद्गलपरमाणुः प्रत्यक्षेण न गृह्यते, किन्तु परोक्षप्रमाणेनैवेति परोक्षप्रमाणापेक्षया पुद्गलाणुरमूर्ततया व्यवहियतेऽतस्तत्रासद्भूतव्यवहारेणोपचारेणामूर्तत्वमित्याह - पुद्गलस्येति - 'मुख्यार्थबाधेऽसति' इत्यत्राकारप्रश्लेषः, तेन तस्य मुख्यार्थबाधे सत्यपीत्यर्थः । तथा व्यवहाराभावात् पुद्गलस्यामूर्ततया व्यवहाराभावात् । भवतु पुद्गलस्योपचारादपि नामूर्तत्वं तेन का