________________
तत्त्वबोधिनीविवृतिविभूषितम् २९१ एते नयोपनयभेदा यथासम्भवं स्वभावेषु योज्यन्ते, स्वद्रव्यादिग्राहकेणास्तिस्वभावः १, परद्रव्यादिग्राहकेण नास्तिखभावः २, उत्पादव्यय-गौणत्वेन सत्ताग्राहकेण नित्यस्वभावः ३, केनचित् पर्यायार्थिकेणानित्यस्वभावः ४, भेदकल्पनानिरपेक्षेणैकखभावः ५, अन्वयद्रव्यार्थिकेनैकस्याप्यनेकद्रव्यस्वभावत्वम् ६, सद्भूतव्यवहारेण गुणगुण्यादिभिर्भेदस्वभावः ७, भेदकल्पनानिरपेक्षेण गुण-गुण्यादिभिरभेदस्वभावः ८, परमभावग्राहकेण भव्या-ऽभव्य-पारिणामिकस्वभावाः ९-१०-११, शुद्धा-ऽशुद्धपरमभावग्राहकेण चेतनस्वभावो जीवस्य, पचरितासद्भूतव्यवहार इत्यर्थः । अत्र 'नयोपनययोजना कर्तव्या' इति यत् प्रतिज्ञातं तदधिकरोति-पते इति-अनन्तरमेवोपदर्शिता इत्यर्थः। 'स्वद्रव्यादिग्राहकेण' इत्यन्तरं 'नयोपनयभेदेन' इति दृश्यम् , एवमग्रेऽपि, यथा च यो नयो वस्तुतः स्वद्रव्य-क्षेत्रकाल-भावादिकं गृह्णाति तेन नयेन वस्तुनोऽस्तिस्वभावः सिद्ध्यतीत्यर्थः । परेतिपरद्रव्य-क्षेत्र-काल-भावग्राहकेण नयेन वस्तुनो नास्तिस्वभावः सिद्ध्यतीत्यर्थः । उत्पादेति-यो नयो वस्तुन उत्पाद-व्ययौ गौणतया ध्रौव्यं च प्रधानतया गृह्णाति तेन नयेन वस्तुनो नित्यस्वभावः सिद्ध्यतीत्यर्थः । केनचिदिति-यश्च पर्यायार्थिकनयो गौणतया ध्रौव्यं प्रधानतयोत्पाद-व्ययौ गृह्णाति तेन पर्यायार्थिकनयेन वस्तुनोऽनित्यस्वभावः सिद्ध्यतीत्यर्थः । मेदेति-यो नयो भेदे गजनिमीलिकामवलम्बते, ऐक्यमेव तु गृह्णाति तेन नयेन वस्तुन एकखभावः सिद्धिमुपयाति । अन्वयेति-यो नयोऽशेषस्वपर्यायान्वयि मृदादिद्रव्यं गृह्णाति नयेनैकस्यापि सद्रूपवस्तुनोऽनेकद्रव्यस्वभावत्वं सिद्धयतीत्यर्थः । सद्भुतेति-सद्भूतव्यवहारेणैकवस्तुमेदविषयकेणोपनयविशेषेण वस्तुनो गुण-गुण्यादिभिर्भेदखभावः सिद्ध्यतीत्यर्थः। भेदकल्पनेति-यो नयो गुण-गुणिनोर्मेंदे गजनिमीलिकामाश्रयति तयोरभेदमेव चावगाहते तेन नयेन वस्तुनो गुण-गुण्यादिभिरभेदस्वभावः सिद्ध्यतीत्यर्थः । परमेति-भाविकाले पररूपाकारभवनलक्षणो भव्यस्वभावः कालत्रयेऽपि पररूपाकाराभवनलक्षणोऽभव्यस्वभावः पारिणामिकस्वभावश्चैते त्रयः स्वभावाः परमभावग्राहकेण नयेन सिद्ध्यतीत्यर्थः । शुद्धतिअनेक स्वभावानां मध्ये चेतनस्वभाव आत्मनः परमस्वभावः, स च निर्मलज्ञानलक्षणः शुद्धः, मतिज्ञानादिस्तु अशुद्ध इत्येवं शुद्धा-ऽशुद्धपरमस्वभावस्य चैतन्यस्य ग्राहकेण