________________
२९० अनेकान्तव्यवस्थाप्रकरणम् । निष्ठत्वात् । असद्भूतव्यवहार एवोपचारः, तत उपचारानन्तरं य उपचारः क्रियते स संश्लेषरहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहारः, सोऽपि स्वजाति-विजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा-पुत्रदारादि मम, द्वितीयो यथा-वस्त्राऽऽभरणहेमरजतादि मम, तृतीयो यथा-दुर्गदेशराज्यादि मम ।। विजात्यनुपचरितासद्भूतव्यवहारः । 'जीवेऽजीवे च ज्ञेये' इति विशेषणोपादानात् संश्लेषसहितत्वं दर्शितं चैतन्यलक्षणत्वाजीवस्येति ज्ञानस्य स्वजातीयः सः, विजातीयश्चाजीव इति तस्य ज्ञानस्य । उभयनिष्ठत्वाद उभयवृत्तित्वात्, न च ज्ञानं वस्तुगत्योभयनिष्ठम् , जीववृत्त्येव तदिति जीवा-ऽजीवोभयवृत्तित्वस्य ज्ञानगतस्यासद्भूतस्यैव व्यवहार इत्युक्तलक्षणसङ्गतिः। उपचरितासद्भूतव्यवहारं, निरूपयति-असद्भुतव्यवहार एवेति-‘परमाणुबहुप्रदेशी' इति कथनम्, 'मूर्त मतिज्ञानम्' इति कथनम् , 'ज्ञेये जीवेऽजीवे च ज्ञानम्' इति कथनं चासद्भूतव्यवहारतया यदुपदर्शितं तत् सर्वमुपचार एव, तस्मात् कारणादुपचारानन्तरं य उपचारः क्रियते स उपचारः, संश्लेषरहितं यद् वस्तु तत् सम्बन्धविषयः उपचरितासद्भूतव्यवहारो भवतीत्यर्थः । सोऽपि उपचरितासद्भूतव्यवहारोऽपि। आद्यः स्वजातिविषयोपचरितासद्भूतव्यवहारः । पुत्रेति-आत्मा वस्तुगत्या न पुत्र-दारादिस्वरूपः, एवमप्यसद्भूतं पुत्रत्व-दारत्वादिकं तत्रारोप्य 'अयं पुत्रः, इमे दाराः' इत्यादि कथनमुपचार एव, ततश्च तत्रास्मत्सम्बन्धमसन्तमेवारोप्य 'पुत्र-दारादि मम' इत्युपर्यते, सोऽयं संश्लेषरहितपुत्रदारादिवस्तुसम्बन्धविषयः, पुत्र-दारादिश्चास्मच्छब्दार्थस्य स्वजातिरेवेति खजातिविषयोऽपीति भवति स्वजातिविषयोपचरितासद्भूतव्यवहार इत्यर्थः । द्वितीयो विजातिविषयोपचरितासद्भूतव्यवहारः, वस्त्राभरणादिकं च संश्लेषरहितं स्वतोऽनावृतस्यात्मन आच्छादनालङ्कारादिरूपेणोपचरितम् , तथाऽस्मच्छब्दार्थस्य विजातीयं च, तद्वस्तुगत्या नास्त्येवात्मसम्बन्धित्वमथाऽप्युपर्यत इति 'वस्त्रा-ऽऽभरण-हेमरजतादि मम' इति व्यवहारो भवति विजातिविषयोपचरितासद्भूतव्यवहार इत्यर्थः । तृतीयः स्वजाति-विजात्युभयविषयोपचरितासद्भूतव्यवहारः। दुर्गेति-दुर्गादिकं वस्तु संश्लेषरहितं विजातीयं च, राज्यान्तर्गतं पुत्र-दारादिकं मनुष्यादिकं चास्मच्छब्दार्थसजातीयं च, एतत् सर्वमुपचरितं च, न तत्रास्मच्छब्दार्थात्मसम्बन्धो वस्तुतः सन्निति 'दुर्ग-देश-राज्यादि मम' इति व्यवहारो भवति स्वजाति-विजात्युभयविषयो