________________
तत्त्वबोधिनीविवृतिविभूषितम् २८९ ऽशुद्धभेदाद् द्विविधः, आद्यःशुद्धगुणगुणि-शुद्धपर्यायपर्यायिभेदकथनम् यथा-केवलज्ञानादयो जीवस्य, द्वितीयोऽशुद्धगुण-गुण्यादिभेदकथनम् , यथा-मतिज्ञानादयो जीवस्य असद्भूतव्यवहार उपचरितस्य पृथक्कथनादनुपचरितो गृह्यते, स च संश्लेषसहितवस्तुसम्बन्धविषयः स्वजातिविजात्युभयविषयभेदेन त्रिविधः, आद्यो यथा-परमाणुबहुप्रदेशीति कथनम् , द्वितीयो यथा-मूर्त मतिज्ञानम् , यतो मूर्त्तद्रव्येण जनितम् , तृतीयो यथा-ज्ञेये जीवेऽजीवे च ज्ञानमिति कथनम् , तस्योभयशुद्धसद्भूतव्यवहारः । शुद्धेति-शुद्धगुण-गुणिभेदकथनं शुद्धपर्याय-पर्यायिभेदकथनं चेत्यर्थः । 'यथा' इत्यादिना शुद्धगुण-गुणिभेदकथनलक्षणशुद्धसद्धृतव्यवहार उदाहृतः, 'घटादयो मृदः, नीलादयो रूपस्य वा' इति शुद्धपर्याय-पर्यायिभेदकथनलक्षणशुद्धसद्भूतव्यवहारो ज्ञेयः । द्वितीयः अशुद्धसद्भूतव्यवहारः। 'अशुद्धगुण-गुण्यादि' इत्यादिपदादशुद्धपर्याय-पर्यायिग्रहणम् । यथा मतिज्ञानादयो जीवस्येति-अत्र जीवो यद्यपि शुद्धो गुणी तथापि मतिज्ञानादयो ज्ञानपर्याया एवेति न शुद्धगुणता मतिज्ञानादीनामिति गुण-गुणिनोरेकस्याप्यशुद्धत्वेऽशुद्धगुण-गुणिकथनमेव तद् भवतीति। 'नीलतर-नीलतमादयो रूपस्य' इत्यशुद्धपर्याय-पर्यायिभेदकथनलक्षणाशुद्धसद्भूतव्यवहारस्योदाहरणं द्रष्टव्यम् । उपचरितासद्भूतव्यवहार उपनयस्य तृतीयो भेद इत्यसद्भूतव्यवहारपदेनानुपचरितासद्भूतव्यवहार एव द्वितीयो भेद इत्याह-उपचरितस्येति । स च अनुपचरितासद्भूतव्यवहारश्च । संश्लेषेति-संश्लेषसहितं यद् वस्तु तत्सम्बन्धविषय इत्यर्थः । आद्यः खजात्यनुपचरितासद्भूतव्यवहारः । परमाण्विति-बहवश्च ते प्रदेशा बहुप्रदेशाः, ते सन्त्यस्येति बहुप्रदेशी, परमाणुश्चासौ बहुप्रदेशी च ‘परमाणुबहुप्रदेशी' इत्येवं कथनं स्वजात्यनुपचरितासद्धृतव्यवहार इत्यर्थः, अत्र परमाणवोऽप्रदेशा एवेति परमाणोः बहुप्रदेशित्वमसद्भूतमेव, तस्य व्यवहारोऽयं 'बहुप्रदेशी' इति, संश्लेषसहितमेव वस्तु, प्रदेशस्य प्रदेशान्तरं स्वजातिरेवेति भवत्युक्तलक्षणसङ्गमनमिति बोध्यम् । द्वितीयो विजात्यनुपचरितासद्भूतव्यवहारः। उदाहरति-यथेति । 'मूर्तम्' इति मूर्तद्रव्यपरम् , मूर्तद्रव्यस्य मतिज्ञानं विजातीयम् , मतिज्ञानस्य मूर्तत्वमसदेवेत्यसद्भूतव्यवहारोऽयम् , मूर्तत्वमपि संश्लेषसहितं मतिज्ञानमपि संश्लेषसहितमिति भवति लक्षणसङ्गमनम् । तृतीयः खजाति
अ. व्य. १९