________________
२८८ अनेकान्तव्यवस्थाप्रकरणम् । विरोधिनः २, इति, २१, व्यवहारोप्येतद्भेदको द्विविधः, आद्यो यथा-जीवा-ऽजीवाः २२, द्वितीयो यथा-जीवाः संसारिणो मुक्ताश्च २३ इति । ऋजुसूत्रः स्थूल-सूक्ष्मभेदाद् द्विधा, आद्यो यथा-मनुप्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्ति २४, द्वितीयो यथा-एकसमयावस्थायी पर्यायः २५, इति। शब्दादयस्त्रयः प्रत्येकमेकैकभेदाः २६, २७, २, ८ इति सर्वेऽप्यष्टाविंशतिर्नयभेदाः ।।
उपनयेषु एकवस्तुभेदविषयः सद्भूतव्यवहारः, स च शुद्धात्वमिति जीवत्वेन विशेषेण सर्वेषां जीवानामैक्यलक्षणमविरोधं गृह्णन्नयं विशेषसङ्ग्रह इत्यर्थः । व्यवहारभेदमुपदर्शयति-व्यवहारोऽपीति । एतद्भेदकः सामान्यविशेषभेदकः । आद्यः सामान्यव्यवहारः । जीवाऽजीवा इति-जीवत्वं सर्वजीवगतं सामान्यं तथाऽजीवत्वं धर्मा-ऽधर्माद्यशेषाजीवगतं सामान्यमिति ताभ्यां विभागोऽयमिति सामान्यविभागः, अत्र 'द्रव्याणि जीवा अजीवाश्च' इति पाठो विभागस्पष्टीकरणार्थो युक्तः । द्वितीयो विशेषविभागः, संसारित्वं मुक्तत्वं च सामान्यस्वरूपमपि जीवत्वापेक्षया भवति विशेष इति ताभ्यां विभागोऽयं भवति विशेषविभाग इत्यर्थः । ऋजुसूत्रभेदमुपदर्शयति-ऋजुसूत्र इति । आद्यः स्थूलर्जुसूत्रः, ऋजुसूत्रो वर्तमानकालस्थाय्येव वस्त्वभ्युपगच्छति, वर्तमानकालश्च स्थूलोपाध्यपेक्षया आयुःप्रमाणकालोऽपि स्थूलो भवतीति मनुष्यादिपर्यायास्तदायुःप्रमाणकालं तिष्ठन्तीत्येवं ग्रहणं भवति स्थूलर्जुसूत्र इत्यर्थः । द्वितीयः सूक्ष्म सूत्रः, सूक्ष्मविचारणायां परमविरुद्धसमय एव वर्तमानकालः, तदवस्थाय्येव वस्तु ऋजुसूत्राभ्युपगमविषय इति 'एकसमयावस्थायी पर्यायः' इति ज्ञानं भवति सूक्ष्मणुसूत्र इत्यर्थः । शब्द-समभिरूडैवम्भूतास्तु एकैकभेदा एवेत्याह-शब्दादय इति । द्रव्यार्थिकभेदानारभ्यैवम्भूतभेदपर्यन्तं यावत्यः प्रत्येकं संख्या दर्शितास्तासंमिलिता अष्टाविंशतिरिति तत्संख्यका नयभेदा इति निगमयति-सर्वेऽपीति । सद्भूतव्यवहारा-ऽसद्भूतव्यवहारोपचरितासद्भूतव्यवहारभेदेनोपनयानां त्रैविध्यं प्रागुपदर्शितम् , तेषां विषया अवान्तरभेदाश्च नोपदर्शिता इति तदुपदर्शनायाह-उपनयेष्विति । एकेति-एकस्य वस्तुनो गुणिनः पर्यायिनो वा भेदा विशेषा गुणाः पर्याया वा ते विषया यस्य व्यवहारस्य स एकवस्तुमेदविषयः, सद्भूतव्यवहार इत्यर्थः । स च सद्भूतव्यवहारश्च । आद्यः