________________
तत्त्वबोधिनीविवृतिविभूषितम् २८७ कर्मोपाधिनिरपेक्षो नित्यशुद्धपर्यायार्थिकः यथा-संसारी सिद्धसदृक् शुद्धात्मा ५, १५, षष्ठः कर्मोपाधिसापेक्षो नित्याशुद्धपर्यायार्थिकः, यथा-संसारिणामुत्पत्ति-मरणे स्तः ६, इति १६, नैगमनेधा-भूतभावि-वर्तमानकालभेदात्, अतीते वर्तमानारोपणं यत्र स भूतनैगमः, यथा-अद्य दीपोत्सवपर्वणि वर्धमानस्वामिनो मोक्षं गताः १, १७, भाविनि भूतवत् कथनं यत्र स भाविनैगमः, यथा-अर्हन् सिद्ध एव २, १८, कर्तुमारब्धमीषनिष्पन्नमनिष्पन्नं वा वस्तु निष्पन्नवत् कथ्यते यत्र स वर्तमाननैगमः, यथा-ओदनः पच्यते ३, इति, १९, सङ्ग्रहो द्विविधः-सामान्य-विशेषभेदात्, आद्यो यथा-द्रव्याणि सर्वाण्यविरोधीनि १, २०, द्वितीयो यथा-सर्वे जीवाः परस्परम
भेदाः । अथ नैगमनयभेदा निरूप्यन्ते-नैगमस्त्रेधेति । भूतनैगमं प्रथममुदाहरति न्यथेति-अतीत एव दीपोत्सवपर्वणि वर्द्धमानस्वामिनो मोक्षं गता न तु वर्तमाने तत्रेति अतीते वर्तमानारोपेण 'अद्य०' इत्यादिनैगमः प्रवर्तत इत्ययं भूतनैगम इत्यर्थः । 'भाविनैगममुदाहरति-यथेति-अर्हन् घातिकर्मचतुष्टयात्यन्तक्षयतोऽवाप्तकेवलज्ञानादिरघातिकर्मचतुष्टयक्षयात् सिद्धो भविष्यति, अथापि भाविनि सिद्धस्वरूपे भूतवत् कथनं 'सिद्ध एवं' इत्येवंरूपम्, अतः 'अर्हन् सिद्ध एवं' इति ग्रहणं भाविनैगम इत्यर्थः । तृतीयं नैगममुदाहरति-यथा ओदनः पच्यत इति-तण्डुलः परिपक्वः सन्नवस्थान्तरमापन्नः सन् ओदन इति कथ्यते, यस्य भक्तमिति नाम लोके व्यवह्रियते, तदात्मकं वस्तु पाके निष्पन्ने सति निष्पन्नं भवति, प्राक् तु विक्लत्त्यनुकूलव्यापारलक्षणक्रियाप्रचयस्वरूपे पाके 'काचित् क्रिया जाता काचिद् वर्तमाना काचिद् भाविनी' इत्येवंरूपे कर्तुमारब्धं तद् वस्तु किञ्चिदंशेन निष्पन्नमनिष्पन्नमेव वा 'ओदनः' इत्येवं निष्पन्नवत् कथ्यत इत्ययं वर्तमाननैगम इत्यर्थः । सङ्ग्रहभिदां दर्शयति-सङ्ग्रहो द्विविध इति । आद्यः सामान्यसङ्ग्रहः । द्रव्याणीति-द्रव्यत्वलक्षणसामान्येन धर्मा-ऽधर्मा-ऽऽकाशादीनां सर्वेषां द्रव्याणामैक्यलक्षणमविरोधं गृह्णन्नयं सङ्ग्रहः सामान्यसङ्ग्रह इत्यर्थः । द्वितीयो विशेषसङ्ग्रहः । सर्वे जीवा इति-जीवत्वस्य सामान्यरूपत्वेऽपि द्रव्यत्वापेक्षया विशेषरूप