SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २८६ अनेकान्तव्यवस्थाप्रकरणम् । द्रव्यार्थिकः, यथा-परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति ९, परमस्वभावग्राहको द्रव्यार्थिको दशमः, यथा-ज्ञानस्वरूप आत्मा, अत्रानेकखभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः १० ॥ इति द्रव्यार्थिकभेदाः॥१०॥ ____ अथ पर्यायार्थिकस्य षड् भेदाः, आद्योऽनादिनित्यपर्यायार्थिकः, यथा-पुद्गलपर्यायो मेर्वादिनित्यः १, ११, द्वितीयः सादिनित्यपर्यायार्थिकः, यथा-सिद्धपर्यायो नित्यः २, १२, तृतीयः सत्तागौणत्वेनोत्पाद-व्ययग्राहकोऽनित्यशुद्धपर्यायार्थिकः, यथा-समयं समयं प्रति पर्याया विनाशिनः ३, १३, चतुर्थः सत्तासापेक्षो नित्याशुद्धपर्यायार्थिकः, यथा-एकस्मिन् समये त्रयात्मकः पर्यायः ४, १४, पञ्चमः सिद्धसादृश्यं तदैवोपपद्येत यदि सतोऽपि तत्र कर्मोपाधेः सम्बन्धो गजनिमीलिकयोपेक्ष्येतेति कर्मोपाधिनिरपेक्षत्वम् , सिद्धपर्यायः सादिरप्युत्तरकालं न विनश्यतीत्येतावतैव नित्यत्वं सिद्धपर्याये तत्सादृश्यतोऽपि तथैव नित्यत्वमायातीति पर्यायविधयैव नित्यत्वं न द्रव्यविधयेति द्रव्यांशाननुप्रवेशाच्छुद्धत्वमिति तथाज्ञानं कर्मोपाधिनिरपेक्षो नित्यशुद्धपर्यायार्थिकनय इत्यर्थः, यद्यपि कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिक इति द्रव्यार्थिकस्य यः प्रथमो मेदस्तस्यापीदमेवोदाहरणमुपदर्शितम्, तथा च यस्यैव शुद्धद्रव्यार्थिकत्वं तस्यैव शुद्धपर्यायार्थिकत्वमित्यसङ्गतमिव प्रतिभाति तथापि पूर्व सिद्धसादृश्यं संसारिण आत्मरूपतयाऽभिमतं न तु पर्यायरूपतयेति शुद्धद्रव्यार्थिकत्वम् , अत्र तु सिद्धस्य यः कर्माष्टकविनिर्मोके सति शुद्धतालक्षणः पर्यायो य उत्तरकालं सर्वदाऽवतिष्ठते तद्रूपस्य संसारदशायामसतोऽपि सद्भावमारोप्य तद्रूपेण सादृश्यमभिमतमिति शुद्धपर्यायार्थिकत्वमिति बोध्यम् । षष्ठमुदाहरति-यथेति-उत्पत्तिरात्मनोऽपूर्वदेहेन्द्रियादिना सह सम्बन्धः, मरणमुपात्तदेहेन्द्रियादिना सह वियोगः, न चैतदुभयं कर्मोपाधिसम्बन्धमन्तरेणेति कर्मोपाधिसापेक्षत्वम्, न ह्यनुगामिद्रव्यखरूपतामन्तरेणैकाधिकरणे उत्पत्ति-मरणे सम्भवत इति नित्यद्रव्यस्वरूपताऽवश्यमेव तद्बलादायातेति नित्यत्वम् , द्रव्यानुप्रवेशाच्चाशुद्धत्वमिति भवति तथाज्ञानं कर्मोपाधिसापेक्षो नित्याशुद्धपर्यायार्थिकनय इत्यर्थः । इत्थं निरूपिता द्रव्यार्थिक-पर्यायार्थिक
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy