________________
२८५
तत्त्वबोधिनीविवृतिविभूषितम्। यथा-संसारिजीवः सिद्धसदृशशुद्धात्मा १, द्वितीय उत्पाद-व्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः, यथा द्रव्यं नित्यम् २, तृतीयो भेदकल्पनानिरपेक्षः शुद्धद्रव्यार्थिकः, यथा-निजगुण-पर्यायस्वभावाद् द्रव्यमभिन्नम् ३, चतुर्थः कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिकः, यथाक्रोधादिकर्मजभाव आत्मा ४, पश्चम उत्पाद-व्ययसापेक्षोऽशुद्धद्रव्यार्थिकः, यथा-एकस्मिन् समये द्रव्यमुत्पाद-व्यय-ध्रौव्यात्मकम् ५, षष्ठो भेदकल्पनासापेक्षोऽशुद्धद्रव्यार्थिकः, यथा-आत्मनो दर्शनज्ञानादयो गुणाः ६, सप्तमोऽन्वयसापेक्षो द्रव्यार्थिकः, यथा-गुणपर्यायस्वभावं द्रव्यम् ७, अष्टमः स्वद्रव्यादिग्राहको द्रव्यार्थिकः, यथा-खद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति ८, नवमः परद्रव्यादिग्राहको
द्रव्यार्थिकभेदनिरूपणं स्पष्टत्वान्न व्याख्यानमपेक्षत इति । पर्यायार्थिकनयभेदान् प्रकटयन्ति-अथेति । आद्यः प्रथमः । उदाहरति-यथेति-पुद्गलपर्यायो मेरुरुपचया-ऽपचयशालित्वाद् भवति पर्यायः, किन्त्वनादिः, नास्ति स भूतकालो यस्मिन् मेरुर्नासीत् , नापि भविष्यत्कालः कोऽपि मेरुशून्य इति स्वानधिकरणकालवृत्तिध्वंसप्रतियोगित्वाभावान्नित्य इति तद्विषयको नयोऽनादिनित्यपर्यायार्थिक इत्यर्थः। सिद्धति-विगलितकर्माष्टकात्मपर्यायः सिद्धः संसारावस्थायां नासीत्, किन्त्वष्टविधकर्मक्षये स जात इति सादिः, उत्तरकालं च सर्वदाऽवतिष्ठत इति नित्यः, तत्सङ्ग्राहको नयः सादिनित्यपर्यायार्थिकनय इत्यर्थः । सत्तागौणत्वेन ध्रौव्यलक्षणसत्त्वस्याप्रधानतया, अस्य 'ग्राहकः' इत्यनेनान्वयः। उदाहरति-यथेति-प्रतिसमयं पर्यायाणां विनाशित्वं तदैव घटेत यदि पूर्वपर्यायस्य नाश उत्तरपर्यायस्योत्पाद इति स्यात् , तथा चार्थादायातमेवोक्तज्ञानस्योत्पादावगाहित्वमिति । चतुर्थमुदाहरतियथेति-एकस्मिन् समये पर्यायस्योत्पाद-व्यय-ध्रौव्यलक्षणत्रयात्मकत्वं तदैव यदि केनचिद्रूपेणोत्पादः केनचिद्रूपेण विनाशः केनचिद्रूपेण ध्रौव्यम्, अत्र ध्रौव्यलक्षणसताऽऽपेक्षितेति सत्तासापेक्षत्वम् , ध्रौव्यमेव च नित्यत्वमिति तथावगाहिनयस्य नित्यग्राहित्वमपि, नित्यांशस्य द्रव्यस्यानुप्रवेशादशुद्धताऽऽपीति भवति तथाज्ञानं सत्तासापेक्षो नित्याशुद्धपर्यायार्थिकनय इत्यर्थः । पञ्चममुदाहरति-यथेति-संसारिणः