________________
३०६
अनेकान्तव्यवस्थाप्रकरणम् ।
भावात् ४ । नापि पञ्चमः - द्रव्यपरिणामे गुणपरिणामत्वायोगेन द्रव्यपर्यायासङ्ग्रहात्, गुणपदपरित्यागेनैव लक्षणकरणौचित्यात् ५ । गुणा एव हि पर्यायाः, ते च द्रव्यस्यैवावस्थाविशेषाः, अत एव केवलज्ञानात्मक पर्यायोऽपि षष्टिवर्षायुषस्त्रिंशद्वर्षीयराज्य पर्यायसदृशः सम्म तौ प्रतिपादितः, तेन द्रव्य-गुणपर्याययोर्जात्या भेदाभिधानमयुक्तम् । एतेन “पर्यायाश्चतुर्विधाः - समानजातीयद्रव्यपर्याया द्व्यणुकाणुकादयः १, विजातीयद्रव्यपर्याया मनुजादयः २, स्वभावगुणपर्यायाः केवलज्ञानादयः ३, विभावगुणपर्यायाश्च मत्यादयः ४” इति प्रवचनसारवृत्तौ पर्यायविभागं कुर्वन्नमृतचन्द्रोऽप्यपास्तः, द्रव्य-गुणपर्याययोर्जात्या भेदाभावात्, केवलज्ञानादिपर्यायाणां सादिनित्यानामपि भवस्थ-सिद्धद्रव्यावस्थाभेदेनैव वैलक्षण्यस्य त्रैलक्षण्यस्य शास्त्रे व्यवस्थापनात् । किन, अस्मिन् विभागे विभागजपर्यायः परमाण्वादि: कुत्रान्तर्भावनीयः ? न चासौ पर्यायो नास्त्येवेत्याशङ्कनीयम् ।
wwww
लक्षणं सम्भवत्येवेत्याह-नापि पञ्चम इति । जात्या द्रव्य - गुणपर्याययोर्भेदाभिधानमपि परस्य न युक्तमित्या वेदनायाह - गुणा एवेति । ते च गुणस्वरूपाः पर्यायाश्च । गुणात्मकपर्यायस्य द्रव्यावस्थाविशेषरूपत्वे सम्मतिसम्मतिमाह-अत एवेति-गुणात्मकपर्यायाणां द्रव्यावस्थाविशेषत्वादेवेत्यर्थः । तेन केवलज्ञानात्मकगुणपर्यायस्य राज्यपर्यायसदृशत्वेन । 'एतेन' इत्यस्य 'अपास्तः' इत्यनेनान्वयः । 'एतेन' इत्यतिदिष्टमेवापासनहेतुमुपदर्शयति-द्रव्य-गुणपर्याययोरिति । भवस्थेति - केवलज्ञानादिपर्याया भवस्थतादशायामपि वर्तन्ते सिद्धावस्थायामपि विद्यन्ते इति केवलज्ञानादिपर्यायत्वेन तेषामभेद एव, किन्तु भवस्थतादशायां ते भवस्थजीवद्रव्यावस्थासिद्धतादशायां तु सिद्धजीवद्रव्यावस्था इत्येवं भेदेन तेषां वैलक्षण्यस्य उत्पाद-व्ययः ध्रौव्यात्मकत्रैलक्षण्यस्य च शास्त्रे व्यवस्थानादित्यर्थः । सामान्यतः स्वभाव-विभावभेदेन पर्यायाणां द्वैविध्यमुपदर्यावान्तरपर्यायविभजनं द्वादशधाऽष्टधा च यत् कृतं तदपि न समीचीनमित्याह-किश्चेति । अस्मिन् विभागे 'ते द्वेधा स्वभाव-विभावभेदाद्’