________________
११६]
[ तत्त्वबोधिनीविवृतिविभूषितम् वक्तुमशक्यत्वात् , अनेकक्षणस्थितिकसत्तानुबन्धित्वोक्तौ चानेकक्षणस्थितिकसत्तानुभवानन्तरमेव भावेन नंष्टव्यमिति । किञ्च,निर्हेतुकत्वे ध्वंसस्य प्रथमक्षण एव तद्भावप्रसक्तिः स्यान्नोदयानन्तरम् ,नहि निर्हेतुकस्य क्वाचित्कत्वं कादाचित्कत्वं वा युक्तम् , व्याघातात् । न च, भावहेतुरेव तत्प्रच्युतिहेतुरतिरिक्तहेत्वभावाच निर्हेतुकत्वम् , त्याह-अनेकक्षणस्थितिकेति । किञ्च, ध्वंसो यदि निर्हेतुकस्तदा गगनादिवन्नित्यः स्यात् , एवं च प्रथमक्षणेऽपि तस्य सत्त्वं प्रसज्येत, न तु भावोत्पत्त्यनन्तरमेव तस्य सत्त्वम् , शशशृङ्गादिवद् वा कदाचिदपि न सत्त्वमेवमेव भावोत्पत्त्यनन्तरमेव तस्य सत्त्वमिति न स्यात् , उभयथा क्वाचित्कत्वं कादाचित्कत्वं च तस्य न स्यात्, सहेतुकस्यैव वस्तुनो यत्र कारणं तत्र कार्यमिति नियमतो देशप्रतिनियमलक्षणं क्वाचित्कत्वम् , यदा कारणं तदनन्तरक्षणे कार्यमिति नियमतः प्रतिनियतकालसम्बन्धित्वलक्षणं कादाचित्कत्वमित्याहकिञ्चेति । ' प्रथमक्षण एव' इत्येवकारोऽप्यर्थकः, अन्यथा निर्हेतुकस्य गगनादिवत् सर्वदा सत्त्वप्रसक्तौ कालान्तरासत्त्वलक्षणावधारणार्थानुपपत्तिः। तद्भावप्रसक्तिः ध्वंससद्भावप्रसक्तिः। ‘नोदयानन्तरम्' इत्यत्रैवकारो दृश्यः, स च पूर्वकालसत्त्वं व्यवच्छिनत्ति, तथा च भावोत्पत्त्यनन्तरं विनाशो न भावोत्पत्तितः प्रागित्येतन्नेति तदर्थः । 'नहि' इत्यस्य ‘युक्तम्' इत्यनेनान्वयः । व्याघातादिति-काचित्कत्वकादाचित्कत्वयोः सहेतुकत्वे सत्येव सम्भव इति ततः सहेतु: कत्वे निर्हेतुकत्वं न स्यात् , निहतुकत्वे च सहेतुकत्वव्याप्तयोः क्वाचित्कत्वकादाचित्कत्वयोर्न सम्भवः, निर्हेतुकत्वेन सहेतुकत्वव्याप्तयोस्तयोर्विरोधादित्यर्थः । न च ' इत्यस्य ' वाच्यम्' इत्यनेनान्वयः। तत्प्रच्युतीति-भावविनाशेत्यर्थः। एवं सति भावस्य प्रतियोगिनो यत् कारणं तदेव नाशस्य कारणमिति सहेतुकत्वं तस्य स्यादिति निर्हेतुकत्वप्रतिज्ञा भज्येतेत्यत आह-अतिरिक्तहेत्वभावाचेति