________________
अनेकान्तव्यवस्थाप्रकरणम् ]
व्यापारानन्तरमुपलब्धेस्तदैव तत्सद्भावाभ्युपगमस्य युक्तत्वात् । न च मुद्गरादिव्यापारानन्तरमस्य दर्शनात् प्रागपि सद्भावकल्पनम् , प्रागदर्शनादग्रेऽप्यभावस्य सुवचत्वात् । कारणान्तरमनपेक्षमाणो ध्वंसो भावसत्तामात्रानुबन्धीति प्रतिक्षणध्वंससिद्धिरिति चेत् ? न-सत्तायां क्षणिकत्वाऽसिद्धौ क्षणिकसत्तानुबन्धित्वस्य नाशे
रानन्तरमेव । तत्सद्भावाभ्युपगमस्य ध्वंससद्भावाभ्युपगमस्य । मुद्रादिव्यापारानन्तरं घटादिध्वंसस्य दर्शनान्मुद्गरव्यापारात् प्रागपि तस्य सत्त्वमित्याशङ्कय प्रतिक्षिपति-न चेति । यद्युत्तरकालदर्शनमात्रेण पूर्वकालेऽपि सत्त्वमविनाभावमन्तरेणापि कल्प्यते, तर्हि पूर्वकालेऽदर्शनेनोत्तरकालेऽसत्त्वमेव किमिति न कल्प्यत इति ध्वंसस्य सर्वदाऽसत्त्वमेव स्यादिति प्रतिक्षेपहेतुमाह-प्रागदर्शनादिति । अभावस्य ध्वंसाभावस्य । ननु प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादात्म्यसम्बन्धेन प्रतियोगिन एवैकस्य कारणत्वम् , न तु प्रतियोगिव्यतिरिक्तस्य कस्यचिदपि तं प्रति कारणत्वम् , अतः कारणान्तरमनपेक्षमाणस्य प्रतियोगिसत्तामात्रानुबन्धिनो ध्वंसस्य प्रतियोग्युत्पत्त्यनन्तरमेव भाव इति प्रतिक्षणध्वंससिद्धिरित्याशाङ्कते-कारणान्त रेति-प्रतियोगिभिन्नकारणेत्यर्थः । भावसत्तामात्रानुबन्धित्वेऽपि भावसत्ताया कतिपयकालसम्बन्धित्वे तदनन्तरं नाशो भवेदिति भावसत्तायाः क्षणमात्रसम्बन्धित्व एव क्षणिकभावसत्तामात्रानुबन्धिनो नाशस्य भावोत्पत्यनन्तरमेव सद्भावः स्यात्, न च भावसत्तायाः क्षणिकत्वमद्यापि सिद्धमिति समाधत्ते-नेति। यदि चानेकक्षणस्थितिका या भावसत्ता तदनुबन्धी विनाशः, तदोत्पत्त्यनन्तरमेव विनाशेऽनेकक्षणस्थितिका भावसत्तैव न भवेदतो भावो. ऽनेकक्षणस्थितिमनुभूयाऽनन्तरं विनश्यतीत्यभ्युपगम एवानेकक्षणस्थितिकभावसत्तानुबन्धी विनाश इति सिद्धं भावानां स्थैर्यमि