________________
तत्त्वबोधिनीविवृतिविभूषितम्
२०१ नन्वेवं 'नीलघटः' इत्यादिसमासाद् 'नीलो घटः' इत्यादिवाक्याच्च शाब्दबोधो न स्यादिति चेत् ? गृहीतैवम्भूतनयव्युत्पत्तीनां न स्यादेव, अन्येषां तु भवन्नयं भ्रमरूपतां नातिक्रामतीति गृहाण । समभिरूढेन ह्येकपदार्थे भेदसम्बन्धेनेतरपदार्थान्वयाऽभावव्याप्यत्वं स्वीक्रियते, मया तु सम्बन्धमात्रेणेतरपदार्थान्वयाऽभावव्याप्यत्वमिति लाघवम् , तस्मान्नीलघट इत्यादौ 'नीलीभवनान्नीलः' 'घटनाद् घटः' इत्यादिक्रियाद्वयाऽसमावेशादनन्वय एव, गुणादिवाचिनः शब्दास्त्वेतन्नये न सन्येव, सर्वेषामेव व्युत्पत्त्यर्थपर्यालोचनायां क्रियाशब्दत्वात् , क्रियाशब्दयोरपि च भिन्नयोः परस्परमनन्वय एव, नीलघटादिविशृङ्खल
अखण्डवस्तुनः पुनः। नन्वतन्मते पदार्थयोरैक्याभावे कर्मधारयसमासाभावे च समानवचनकविशेष्यविशेषणवाचकपदद्वयसमभिव्याहारलक्षणव्यासवाक्यात् कर्मधारयाच शाब्दबोध एतन्मते न स्यादिति शङ्कते-नन्वेवमिति । इष्टापत्तिरेवाऽत्र समाधानमित्याह-गृहीतैवम्भूतेति । अन्येषां तु एवम्भूतनयव्युत्पत्तिग्रहणविकलानां पुनः। भवनयं शाब्दबोधो नीलघट इत्यादिसमासादितो भवन् । एवम्भूतनयवादी समभिरूढनयवादकल्पनापेक्षया स्वकल्पनायां लाघवमुपदर्शयति-समभिरूढेनेति-अस्य 'स्वीक्रियते' इत्यनेनान्वयः। यत्र तादात्म्येनैकपदार्थस्तत्र मेदसम्बन्धेनेतरपदार्थान्वयाभाव इत्येवं व्याप्यव्यापकभावः समभिरूढनये ज्ञेयः । मया तु एवम्भूतनयवादिना पुनः, अत्र 'सम्बन्धमात्रेण' इत्युक्तिः पदार्थान्वयो नियमेन केनापि सम्बन्धेनेत्यभिसन्धानेन वस्तुतो व्याप्तौ तु 'सम्बन्धमात्रेण इति नोपादेयमेव, किन्तु यत्र तादात्म्येनैकपदार्थस्तत्रेतरपदार्थान्वयाभाव इत्येवं व्याप्यव्यापकभाव एवम्भूतनये इति 'भेदसम्बन्धेन' इत्यस्याऽनुपादानालाघवं स्फुटमेवेति । खमतरहस्यं प्रकटयति-तस्मादिति । 'नीलघटः इत्यादौ' इत्यस्य 'अनन्वय एवं' इत्यनेन सम्बन्धः। अनन्वय इत्यत्र हेतुमाह- नीलीभवनादिति । ननु नीलशब्दो नीलगुणवाची, घटशब्दस्तु द्रव्यवाचीति नात्र क्रियाद्वयमत्र यदसमावेशादनन्वयः स्यादित्यत आह-गुणादिवाचिन इतिआदिपदाद् द्रव्य-जात्यादिवाचकशब्दपरिग्रहः । एतन्नये एवम्भूतनये। यदि तत्र शब्दबोधो न भवति तर्हि तत्रानुभूयमानो बोधः किंखरूप इत्याकाङ्क्षायामाह-नील