________________
२००
अनेकान्तव्यवस्थाप्रकरणम् । "नीलुप्पलाइसद्दाऽहिमरणमेगं च जं मयं तत्थ । नणु पुणरुत्ता-ऽणत्थय-समयविघाया पुहुत्तं वा ॥"
. [विशेषावश्यकभाष्यगाथा-२२६० ] नीलोत्पलादिशब्दानां यदेकमधिकरणमतिक्रान्तनयस्य सम्मतम् , तत्र ननु पौनरुक्त्या-ऽऽनर्थक्य-समयविघातलक्षणा दोषा उक्ता एवेति न कर्मधारयः, अथ पौनरुक्त्यादिदोषा नेष्यन्ते, तर्हि नीलोत्पलादिशब्दाभिधेयस्यार्थस्य पृथक्त्वं भेदः प्राप्नोतीत्यतोऽपि तुल्याधिकरणताऽभावान्न कर्मधारयः ॥ तस्मात् किं स्थितमित्याह
"तो वत्थुसंकराइप्पसंगओ सव्वमेव पडिपुन्नं । वत्थु सेसमवत्थु, विलक्खणं खरविसाणं व ॥"
[विशेषावश्यकभाष्यगाथा-२२६१] तस्माद् वस्तुसाङ्कर्यादिदोषप्रसङ्गतः, सर्व-धर्मास्तिकायादिकम् , सम्पूर्णं-देश-देशिकल्पनारहितमखण्डम् , वस्तु, एतस्मात् तु विलक्षणं-देश-देशिकल्पनान्वितम् , अवस्तु, युक्तिविकलत्वात् , खरविषाणवदिति ॥
रणता च प्रकृतेऽभेदेनान्वितपदार्थप्रतिपादकत्वम् । नीलुप्पला० इति- “नीलोत्पलादिशब्दाधिकरणमेकं च यन्मतं तत्र । ननु पुनरुक्ता-ऽनर्थक-समयविधाताः पृथक्त्वं वा" ॥ इति संस्कृतम् । विवृणोति-नीलोत्पलादिशब्दानामिति । अतिक्रान्तनयस्य समभिरूढनयस्य । समयविधातेति- वस्तुनः सङ्क्रमणं न भवतीति समभिरूढसिद्धान्तविघातेत्यर्थः । अथेति- पौनरुक्त्यादिदोषास्तदैव न सम्भवेयुर्यदि नीलोत्पलादिशब्दयोरैक्यं नाभ्युपगम्यते, एवं सति यत् स्यात् तदाह- तीति ॥
एवम्भूतनयतत्त्वोपसंहरणपरं भाष्यवचनमवतार्योल्लिखति- तस्मादिति । तो वत्थु० इति-"तस्माद् वस्तुसंकरादिप्रसङ्गतः सर्वमेव परिपूर्णम् । वस्तुशेषमवस्तु विलक्षणं खरविषाणमिव" ॥ इति संस्कृतम् । विवृणोति-तस्मादिति । एतस्मात् तु