________________
तत्त्वबोधिनीविवृतिविभूषितम्
वचनश्च नोशब्द:, 'देशिन एकदेशभूत एव देशो न पुनस्तद्व्यतिरिक्तः' इत्यर्थप्रतिपादक इति चेत् ? तदप्ययुक्तमित्याह
१९९
"नोसो विसमत्तं, देसं व भणिज्ज जइ समत्तं तो । तस्स पओगोऽणत्थो, अह देसो तो ण सो वत्थं ॥” [ विशेषावश्यकभाष्यगाथा - २२५९ ] नो देशी इति प्रयोगे योऽयं नोशब्दः स किं समस्तं देशिलक्षणं वस्तु वदेत् ? अथवा तद्देशमेव ब्रूयात् ?, यद्याद्यः पक्षः, तदा नोशब्दस्य प्रयोगोऽनर्थकः केवलाद् देशिशब्दादेव समस्तवस्तुप्रतीतेः, अथ देशो नोशब्देनोच्यते, ततो नासौ वस्तु, देशिनो भेदाभेदाभ्यामनुपपत्तेरुक्तत्वात् ॥
नीलोत्पलादिसमासश्च द्वयोः पदयोरेकाधिकरणतायां भवति, द्वयोश्चैकमधिकरणं नास्ति, अनन्तरमेव निषिद्धत्वादिति कर्मधारयसमासोऽपि न युक्त इति दर्शयन्नाह -
तीत्यपेक्षायामाह - एकदेशवचनं चेति । तद्व्यतिरिक्तः देशिव्यतिरिक्तः । नो सद्दो० इति - "नोशब्दोऽपि समस्तं देशं वा भणेद् यदि समस्तं ततः । तस्य प्रयोगोऽनर्थोऽथ देशस्ततो न स वस्तु" ॥ इति संस्कृतम्, विवृणोति - नो देशी' इति प्रयोग इति । तद्देशमेव देशिनो देशमेव । यद्याद्यः पक्ष इति-'नो देशी' इत्यत्र नोशब्दः समस्तं देशिलक्षणं वस्तु ब्रवीतीति पक्ष इत्यर्थः । नोशब्दोऽपि समस्त - देशिस्वरूपवाचक एव देशिशब्दोऽपि तथेत्येकेनैव देशिशब्देन समस्तदेशिस्वरूपप्रतिपादनसम्भवान्नोशब्दस्यानर्थक्यमित्याह - तदा नोशब्दस्येति । तद्देशमेव नोशब्दो ब्रूयादिति द्वितीयपक्षमधिकरोति - अथेति । असौ देशः । कुतो न वस्त्वित्यपेक्षायामाह - भेदेति ।
कर्मधारयसमासोऽप्येतन्मते न सम्भवतीत्येतत्प्रतिपादकं भाष्यवचनमवतार्यो - लिखति- नीलोत्पलादिसमासश्चेति- - अस्य 'भवति' इत्यनेन सम्बन्धः, एकाधिक
wwww