________________
अनेकान्तव्यवस्थाप्रकरणम् ।
पदोपस्थित्यनन्तरं तत्संसर्गबोधश्च मानसोत्प्रेक्षामात्रम्, तथैव च सर्वो व्यवहारः, यदि च 'नीलो घट:' इत्यादेरखण्डनीलघटादिवाक्यार्थबोधः शाब्द एवानुभवसिद्धस्तदा वाक्यार्थस्याखण्डत्वादखण्डवस्तुबोधाय वाक्ये लक्षणैव स्वीकर्तव्या, यथा वेदान्तिनां 'सोऽयं देवदत्त' इत्यादौ 'तत्त्वमसि' इत्यादौ च सा च न शक्यसम्बन्धरूपा पदद्वयात्मक वाक्यशक्ययोः सम्बन्धानभ्युपगमात् किन्तु तात्पर्यानुपपत्ति
२०२
"
घटादीति । तत्संसर्गबोधश्च नीलघटादिसंसर्गबोधश्च । तयैव च मानसोत्प्रेक्षयैव पुनः । यदि पदार्थद्वयान्वयबोधो न शाब्दबोधः, किन्त्वखण्डवाक्यार्थबोधस्वरूपः शाब्दबोधो वाक्यार्थस्य नीलघटादिरूपस्याखण्डस्य स्वीकारात् तर्हि तादृशशाब्दबोध एवम्भूतनयानुमत एवेत्याह-यदि चेति । इत्यादेः इत्यादिवाक्यात् । अखण्डेति - अखण्डो यो नीलघटादिर्न तु नीलाऽभिन्नघटादिरित्येवं सखण्डः स एव वाक्यार्थस्तस्य बोध इत्यर्थः । नीलपदस्य नीले घटपदस्य घटे च शक्तिः, नीलघटादिलक्षणार्थे तु न कस्यापि शक्तिरतस्तस्य कथं बोध: ? इत्यपेक्षायामाह — वाक्यार्थस्येति । वाक्यस्य लक्षणा न कुत्रापि दृष्टेत्यदृष्टचरीयं कल्पनेत्यत आह-यथा वेदान्तिनामिति - 'सोऽयं देवदत्तः' इति वाक्यस्याखण्डदेवदत्तव्यक्तौ लक्षणेति ततोऽखण्डदेवदत्तव्यक्तिबोधः, पूर्वकालवृत्तित्वविशिष्टस्यैतत्कालवृत्तित्वविशिष्टेन सह तादात्म्यान्वयाऽसम्भवादित्थं तत्र कल्पना, 'तत् त्वमसि' इत्यत्र मायावच्छिन्नचैतन्यलक्षणतत्पदार्थस्याऽन्तःकरणावच्छिन्नचैतन्यलक्षणत्वं पदार्थस्य चाभेदान्वयाऽसम्भवात् ‘तत् त्वमसि' इति वाक्यस्यैव शुद्धचैतन्यलक्षणब्रह्मणि लक्षणा, तया च शुद्धचैतन्यरूपाऽखण्डवाक्यार्थबोध इति । लक्षणा च शक्यसम्बन्धरूपा नैयायिकादिभिरुपगता, सा च तन्मते वाक्यस्य शक्तेरभावान्न भवति, वेदान्तिमते तु सा किंवरूपोपेयेत्यपेक्षायामाह-सा चेति - लक्षणा पुनरित्यर्थः । पदद्वयेति-तत्-त्वम्पदद्वयात्मकवाक्यशक्ययोर्मायावच्छिन्न चैतन्याऽन्तःकरणावच्छिन्न चैतन्ययोर्लक्ष्यतयाsभिमतेन शुद्धचैतन्यात्मकब्रह्मणा समं सम्बन्धानभ्युपगमात्, तस्य सर्वाऽसङ्गतयैव स्वीकारात् । तर्हि किंस्वरूपा सेति पृच्छति - किन्त्विति । उत्तरयति - तात्पर्येति । यैश्च वर्णस्फोट - पदस्फोट - वाक्यस्फोटभेदेन स्फोटस्य त्रैविध्यमुररीक्रियते तन्मते पदद्वयात्मकवाक्यतो वाक्यस्फोटोऽभिव्यज्यते, तस्याऽखण्डस्याऽखण्डे ब्रह्मणि शक्तेः