________________
२०३
तत्त्वबोधिनीविवृतिविभूषितम् सध्रीचीनाऽखण्डवस्तुविषयकशाब्दबोधजनकशक्तिविशेषस्वभावा, वाक्यस्फोटाभ्युपगमे तु तत एवाभिव्यक्ताऽखण्डादखण्डवस्तुबोधो नानुपपन्न इति रहस्यम् ॥
अनेकान्ततत्त्वव्यवस्थायां सप्तनयविचारः सम्पूर्णः । समर्थिता इति श्रीमद्यशोविजयवाचकैः ॥ श्रीसिद्धान्तानुसारेण नयाः शब्दादयस्त्रयः ॥ १॥
एते च नयाः प्रत्यक्षादिस्थलेऽजहद् वृत्त्यैकोपयोगरूपतया सापेक्षाः प्रमाणतामास्कन्दन्ति, शब्दस्थले च साकाङ्कखण्डवाक्यजसप्तभङ्गयात्मकमहावाक्यरूपाः प्रमाणम् , न निरपेक्षाः, तदुक्तं सम्मतौ
www
सम्भवेनाऽखण्डस्वरूपाद् वाक्यस्फोटाच्छक्तिसहकृतादखण्डबोधो वेदान्तिनामिवैवम्भूतनयवादिनोऽपि नाऽनुपपन्न इत्याह-वाक्यस्फोटाभ्युपगमे त्विति ॥
लावण्यसूरिणा सप्तनयानां तु विचारणे ।
व्याख्या पल्लविता भूयादानन्दाय सुमेधसाम् ॥ १॥ इत्थं शब्दसमभिरूदैवम्भूतनयत्रयसमर्थनं पद्येनोपसंहरति-समर्थितेति-श्रीमद्यशोविजयवाचकैः श्रीसिद्धान्तानुसारेण शब्दादयस्त्रयो नया इति समर्थिता इत्यन्वयः । अत्र इतिशब्द एवमित्यर्थे । एवम्भूतविचारव्याख्यासमाप्तौ सप्तनयनविचारव्याख्या समाप्ता ॥
अथ नयस्य नयान्तरसापेक्षत्वे प्रमाणतासमर्थनव्याख्या-सापेक्षाणां नयानां प्रमाणतां समर्थयति-एते चेति-अनन्तरगुणदर्शिताश्चेत्यर्थः । 'प्रत्यक्षादि' इत्यादिपदादनुमानाद्युपग्रहः, । साकाङ्केति—साकाङ्क्षाणि यानि खण्डवाक्यानि प्रत्येकभङ्गस्वरूपाणि तद्धटितत्वात् तजन्या या सप्तभङ्गी तदात्मकं यन्महावाक्यं तद्रूपास्तदात्मकाः सन्तो नयाः प्रमाणं भवन्तीत्यर्थः, नयात्मकज्ञानजनकत्वाद् वाक्यस्य नयत्वोपचारः। न निरपेक्षा प्रत्यक्षादिस्थले शब्दस्थले च परस्परनिरपेक्षा नया न प्रमाणमित्यर्थः।