________________
११०]
[ तत्त्वबोधिनीविवृतिविभूषितम् त्वेन प्रतिभासनात् कथं नैकत्वम् ? । उपादानत्व-सहकारित्वे जनकत्वविशेषरूपे कार्यभेदेन जनकत्वाऽजनकत्वरूपे वा न विरुद्धे इति चेत् ? तदतत्कार्यजनकत्वेऽपि तथा न विरोत्स्येते इति तुल्यम् । अन्त्यावस्थायां सर्वेषां प्रत्येकमभिमतकार्यजनकत्वमन्यसनिधिस्तु स्वहेतुप्रत्ययसामोपनीतावर्जनीयसनिधि!पालम्भमहतीत्येकैकतयोरेकत्राध्यासो न विरुद्धधर्माध्यास इति न स भेदप्रयोजकः, तथा तत्कार्यजनकत्व-तदन्यकार्यजनकत्वयोर्न विरोध इति तयोरेकत्राध्यासोऽपि न स्थिरस्य भेदप्रयोजक इति शङ्कासमाधानाभ्यामाह-उपादानत्वेति । तदतत्कार्यजनकत्वे अपि तत्कार्यजनकत्व तदन्यकायजनकत्वे अपि । यद् यत्कार्यकुर्वद्रूपा मकं तत् तत्कार्य करोत्येवेति नियमाद यावन्तो ये यत्कार्यजनकत्वेनाभिमतास्ते सर्वेऽपि प्रत्येकमेव तत् कार्य करोति, स्वस्वकारणेभ्य एकक्षणे ते सर्वे समुत्पन्ना इत्येतावन्मात्रेण तेषां सर्वेषां सम्मेलनं न तु तथासम्मेलनस्य कार्ये उपयोग इत्येकैकस्यैव कार्योत्पादकत्वमित्यपि बौद्धमतं न समीचीनमित्याह-अन्त्यावस्थायामिति-यदनन्तरं कार्य भवत्येव तत्कालीनस्य कुर्वद्रूपात्मकस्य कारणस्याऽवस्थाऽन्त्यावस्था तदानीमित्यर्थः। स्वहेत्विति-स्वस्वकारणसामोपनीताऽवजनीयसन्निधिस्वरूपः । नापेशलं न मनोहरम् , न युक्तमिति यावत् । अन्वयिद्रव्यस्वीकारे यद् द्रव्यं यत्कार्यानुयायि तद् द्रव्यं तत्कार्यस्यानुयायित्वादुपादानम् , यत्कार्ये च नानुयायि नत्कार्यस्य सहकारिकारणमिति व्यवस्थोपपद्यते; अन्वयिद्रव्याऽभावे तु न किमपि कारणं कार्यमनुगच्छति किन्त्वव्यवहितपूर्ववर्तितामात्रेण कारणम् , तथा च मनस्कारस्य यथाऽन्त्यक्षणावस्थितस्य चक्षुर्विज्ञान प्रति कारणत्वं तथा रूपादेरपीति मनस्कारस्य ततो यधुपादानत्वं चक्षुर्विज्ञान प्रति तर्हि तत एव रूपादेरप्युपादानत्वं स्याद् विनिगमकस्य कस्यचिदभावात् , अन्वय-व्यतिरेकदर्शनस्योभयत्राविशे.