________________
| १०९
अनेकान्तव्यवस्थाप्रकरणम् ]
नेत्यवान्तरसामग्रीभेदेन तज्जन्मनां स्वभावभेद इति वाच्यम्, मनस्कारादीनां ज्ञानादौ येन रूपेण जनकत्वं तेनैव चक्षुरादिजनकत्वे चक्षुरादीनां ज्ञानादित्वापत्तेः कार्ये सकलस्वगतविशेषाधायकत्वस्योपादानलक्षणत्वात्, रूपान्तरेण च मनस्कारादीनां चक्षुरादिजनकत्वे कथं न स्वभावभेद: ? । उपादान-सहकारिशक्तिभेदेऽपि स्वसंविद्येकत्वेनावभासनान्मनस्कारस्यैकत्वमिति चेत् ? नन्वेवमक्षणिकस्यापि तदतत्कालभाविकार्यजनकत्वस्वभावभेदेऽपि प्रत्यक्षेणैक
1
प्रेतोऽर्थः । येन रूपेण मनस्कारादीनां ज्ञानादिकं प्रति कारणत्वं तेनैव रूपेण यदि तेषां रूपादिकं प्रति कारणत्वं तदा स स्वभावस्तेषां ज्ञानादित्वेन ज्ञानादिजनकत्वलक्षणः, यतस्तद्वलाजायमानानां ज्ञानादीनां ज्ञानादित्वम्, तद्वलादेव च रूपादीनामपि जायमानत्वेन तेषामपि ज्ञानादित्वं प्रसज्येत, ज्ञानादिकं प्रति येन स्वभावेन जनकत्वं तत्स्वभावव्यतिरिक्तस्वभावेन रूपादिकं प्रति कारणत्वे तु स्वभावभेदाद् भेदः स्यादेवति निषेधहेतुमुपदर्शयति'मनस्कारादीनामिति । चक्षुरादिजनकत्वे चक्षुरादिकं प्रति जनकत्वे । तेन स्वभावेन जनकत्वे उपादानविधयैव जनकत्वमायातम्, उपादानं च तदेव भवति यत् सकलस्वगतविशेषाधायकमिति स्वगतज्ञानादिलक्षणविशेषस्य प्रसको रूपादीनां स्यादेवेत्याह- कार्य इति । रूपान्तरेण येन रूपेण ज्ञानादिकं प्रति जनकत्वं तदन्यरूपेण । ननु स्वसंवेदनात्मकज्ञाने मनस्कार एकत्वेनैवावभासत इत्युपादानशक्तिसहकारिशक्तिलक्षणस्वभावभेदेऽपि न तस्य भेद इत्याशङ्कते - उपादानेति । स्थिरोऽपि पदार्थः प्रत्यक्षे एकत्वेनैवावभासत इति तस्य तत्कालभाविकार्यजनकत्वाऽन्य कालभाविकार्यजनकत्वलक्षणस्वभावभेदेऽपि न भेद इति कथमेकत्वं न स्यादिति समाधत्तेनन्वेमक्षणिकस्यापीति । यथा चोपादानत्व- सहकारित्वयोर्जनकत्ववि - शेषरूपयोः कार्यभेदेन जनकत्वा-Sजनकत्वरूपयोर्वा न विरोध इति