________________
अनेकान्तव्यवस्थाप्रकरणम् ]:
[ ४१
सम्बन्धरूपस्याननुगतत्वादिति कल्पितैकत्वानामेव सकलकारणानां सामग्रीत्वं वाच्यम् , तद्वदस्थिरपक्षेऽप्येकक्षणोत्पन्नानां कुर्वद्रूपत्वजात्यैकीकृत्य कल्पितानां कारणानां यदि सामग्रीत्वं कल्प्यते तदा को वा सामग्रीभेद इति । एतेन 'क्षणिकानामेव हेतुत्वे तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्वं स्याद्' इति निरस्तम् , अन्वय-व्यतिरेकाभ्यां सादृश्यानुसारेणेव कार्यकारणभावव्यवहारात् तनिश्चयानु
अननुगमादिति-अननुगमश्च विशेष्य-विशेषणभावे विनिगमनाविरहतोऽवसेयः।तत्सम्बन्धरूपस्य एकस्मिन् कारणेऽपरकारणरूपसम्बन्धरूपस्य सामानाधिकरण्यात्मकस्य । अननुगतत्वात् निरूपकीभूतप्रतियोग्यनुयोगिभेदेन भिन्नत्वात् , तथा चोक्तस्य सामग्रीत्वस्वरूपत्वे तस्यानेकत्वमपरिहार्यमेव । इति एतस्मात् कारणात् । कल्पितेकत्वानामेव खरूपतोऽनेकरूपाणामपि कारणानामेककार्यनिरूपितकारणत्वरूपैकधर्मवत्त्वेन यद्येकत्वं परिकल्प्यते तर्हि कल्पितैकत्वानाम् , एवकारेण वास्तविकैकत्वस्य व्यवच्छेदः । तद्वत् स्थिरपक्षवत् । कल्पितानाम् एकत्वेन कल्पितानाम् । एवं सति सामग्रीत्वस्यैकत्वात् तदालिङ्गिताया सामग्ऱ्या अप्येकत्वे न भेद इति न सामग्रीमेदात् कार्यभेद इत्याह-तदा को वा सामग्रीभेद इति । एतेनेत्यस्य 'निरस्तम्' इत्यनेनान्वयः। 'एतेन' इत्यनेनातिदिष्टमेव हेतुमुपदर्शयति-अन्वय-व्यतिरेकाभ्यामिति-यत् कार्य येन पूर्ववर्तिना सदृशं तयोरेव पूर्वापरभावापन्नयोरेकसन्तानपतितत्वमिति तयोरेवाम्वयव्यतिरकाभ्यां कार्यकारणभावव्यवहारो भवति, व्यवहारस्य व्यवहर्तव्यपूर्वकत्वात् तादृशव्यवहाररूपकार्यतस्तयोरेव कार्यकारणभाव इति निश्चयः, निश्चयश्च स्वानुभवानुरूपपूर्वक इति तदनुसारेण तत्सामर्थ्यलक्षणशक्तेः कार्यकारणभावपर्यवसिताया अनुभवस्य कल्पनात् सोऽयमनुभवः प्रतिनियतहेतुहेतुमद्भावस्य तत्तत्कार्य