________________
४२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् सारेणैव तच्छक्त्यनुभवकल्पनात् प्रतिनियतहेतु-हेतुमद्भावस्यैव प्रामाणिकत्वात्। अथासतोऽजनकत्वान्न क्षणविशरारोः कार्यप्रसव इति चेत् ? न-अनभ्युपगमात् , कार्यकाले सत्त्वस्य कारणतायामप्रयोजकत्वात् , कुर्वद्रूपत्वस्यैव तथात्वात् , तथाप्यविनष्टाद् द्वितीयक्षणव्यापारसमावेशवर्तिनः कार्यप्रसवाभ्युपगमे क्षणभङ्गभङ्गप्रसङ्ग इति चेत् ?,
कारणवलक्षणस्वरूपस्यावगाहीति तत्र प्रमाणमित्यतः प्रतिनियतहेतुहेतुमद्भावस्यैव प्रतिनियतकार्यकारणत्वस्यैव, प्रामाणिकत्वात् प्रमाणसिद्धत्वादित्यर्थः । क्षणिकस्य कारणस्य कार्यकालेऽविद्यमानत्वाद् न कारणत्वमिति क्षणिकात् कार्यजन्म न सम्भवतीति शङ्कतेअथेति । कार्यकाले सत एव जनकत्वमिति नास्माभिरङ्गीक्रियते येन कार्योत्पत्तिक्षणेऽसतः क्षणिकस्य कारणत्वं न भवेत् , नहि कार्यकालवृत्तित्वलक्षणं सत्त्वं कारणताया अवच्छेदकम् , किन्तु तत्तत्कार्यकुर्वदूपत्वेन तत्तत्कार्य प्रति कारणत्वमुपेयते, यदनन्तरं नियमेन कार्यमुपजायते तस्य कार्यकालेऽसतोऽपि तत्कार्यकुर्वद्रूपत्वलक्षणकारणतावच्छेदकधर्मवत्त्वेन कारणत्वस्य सम्भवादिति समाधत्ते-नेति । तथात्वात् अवच्छेकविधया कारणतायां प्रयोजकत्वात् । ननु कार्यानुकूलव्यापारवत एब कारणत्वमिति प्रथमक्षणे कारणं द्वितीयक्षणे तस्य व्यापार इति व्यापारवत: कारणीभूतस्य वस्तुनः क्षणद्वयवृत्तित्वमावश्यकमिति द्वितीयक्षणेऽविनश्यतस्तस्य द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्वलक्षणस्य क्षणभङ्गस्य भङ्ग एवेति शङ्कते-तथापीति-कुर्वद्रूपत्वस्यैव कारणतायां प्रयोजकत्वेऽपीत्यर्थः । व्यापारवत एव कारणत्वमिति यद्यभ्युपगम्येत तर्हि द्वितीक्षणभाविव्यापारप्रतीक्षाया आवश्यकत्वतः क्षणिकत्वं न भवेदपि, न च व्यापारवतः कारणत्वमभ्युपेयते, कुर्वद्रूपत्वेन स्वभवनबलादेव व्यापारमन्तरेणापि कार्य प्रति प्रवृत्तेः कारणस्याभ्युपग