________________
४० ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
,
यदि तु तेषु सर्वेषु अभिन्नं रूपं किञ्चिजनकं स्यात् तदा तदेकतरस्थितावपि कार्यजननं स्यात् न स्याद् वाऽन्यसन्निधावपि सामग्रीमाश्रित्य कारणभेदात् कार्यभेदः स्यादिति चेत् ? अयमस्माकमध्यभ्युपगम एव, स्थिरपक्षेऽपि हि सामग्रीत्वमेकं दुर्वचम्, इतरकारणविशिष्टापरकारणस्य सामग्रीत्वेऽननुगमाद् वैशिष्टयस्यापि त
गमे । नानेकताप्रसङ्गः कायस्यानेकताप्रसञ्जनं न भवतीति । सर्वे ते पृथगेव तत् कार्य प्रति कारणभावं विभ्रति, न तु तेषु सर्वेषु किञ्चिदेकमभिन्नं तजनकं समस्ति यतस्तत् कार्यं भवतीति, तथाभ्युपगमे निरुक्तकारणानां मध्यादेककारणमात्रसद्भावेऽपि तत्र तत्कार्यजनकैकरूपस्याऽभिन्नस्य सद्भावात् तत् कार्य स्यात्, तद्गताभिन्नैकरूपतः कार्यस्योत्पत्त्यभावे इतर कारणसमवधानेऽपि ततः कार्य न स्यात् तद्रूपस्य फलोपहितत्वस्यानाश्रयणात् तदानीमपि तस्यैव भावादित्याह - यदि त्विति । सामग्री कार्यजनिका, तत्र सामग्रीत्वमेककारणविशिष्टापरकारणत्वम्, तत्र विशेष्यविशेषणभावे विनिगमनाविरहाद् यस्य विशेष्यत्वं तस्य विशेषणत्वमपि सम्भवति, यस्य विशेषणत्वं तस्य विशेष्यत्वमपीत्येवं निरुक्तरूपस्य सामग्रीत्वस्यानेकत्वात्, एवं सामग्रीत्वस्वरूपप्रविष्टवैशिष्ट्यस्यापि सम्बन्धभेदेन भेदे ततोऽपि सामग्रीत्वस्यानेकत्वात् तदालिङ्गितसामग्र्या अपि भेद इति तद्भेदात् कार्यस्य भेद इत्याशङ्कतेसामग्री माश्रित्येति । इष्टापत्तिरेवोक्ताशङ्कायां समाधानमित्याहअयमिति-सामग्रीभेदात् कार्यभेदापादनलक्षण इत्यर्थः । अस्माकमपि क्षणिकवादिनामपि तथा चेष्टापादनरूपत्वान्नायं दोषावह इति भावः । सामग्रीत्वस्यानेकत्वं नास्मन्मत एव किन्तु स्थैर्यवादिमतेऽपीत्याह-स्थिरपक्षेऽपीति । हि यतः । एकस्य सामग्रीत्वस्य दुर्वचत्वे हेतुमाह — इतर कारणविशिष्टेति - स्वातिरिक्त सकलकारणविशिष्टेत्यर्थः ।
.