________________
२३२
अनेकान्तव्यवस्थाप्रकरणम् ।
wwwm
घटे नीलप्रत्यक्षोपपादनात् इयांस्तु विशेषः, यत्परेषां देशदेशस्यावच्छेदकत्वं स्वाभाविकसम्बन्धविशेषेण, अस्माकं तु वैज्ञानिकसम्बन्धविशेषेण, तत्र परेषां परम्परासम्बन्धेन गोष्ठकोणस्य साक्षात्सम्बन्धेन च कोणावच्छिन्नगोष्ठस्य गवावच्छेदकत्वमिति 'कोणे गौर्न तु गोष्ठे' इति सूक्ष्मेक्षिकानुपपत्तिः, अस्माकं तु मध्यमनैगमभेदकृत वैज्ञानिकसम्बन्धेन गोष्ठकोण एव तथात्वं न तु गोष्ठ इति तदुपपत्तिः, न च 'कोणे गौर्न तु गोष्ठे' इति सूक्ष्मेक्षिका न भवत्येव, किन्तु 'न तु सम्पूर्ण गोष्ठे' इत्येव, सा च यावत्कोणेषु गवावच्छेदकतावच्छेदकत्वपर्यात्यभावमवगाहत इति
"
यदिति - यस्मादित्यर्थः । परेषां पशुपालानुयायिनाम् । अस्माकं तु जैनानां तु वैज्ञानिक सम्बन्धविशेषेण स्वविषयकज्ञानविषयत्वाद्यात्मक सम्बन्धेन । तत्र उक्तविषये । परेषां पशुपालानुयायिनाम् । परम्परासम्बन्धेन गोष्टो न गोरव - यवरूपो देशः किन्तु संयोगिलक्षण इति स्वसंयुक्तसमवायित्वसम्बन्धेन गोष्टकोणस्य गवावच्छेदकत्वमिति सम्बन्धः । साक्षात्सम्बन्धेन संयोगसम्बन्धेन, यदा च परमते देशदेशस्य देशस्य चावच्छेदकत्वं स्वाभाविकेन परम्परासम्बन्धेन स्वाभाविकेन च साक्षात्सम्बन्धेन चोपपद्यते तदा 'कोणे गौः' इति 'गोष्टे गौः' इति प्रतीतिद्वयमपि सम्भवतीत्यतः 'कोणे गौर्न तु गोष्टे' इति सूक्ष्मेक्षिकाया अनुपपत्तिरित्याह-इतीति-एतस्मात् कारणादित्यर्थः । अस्माकं तु जैनानां पुनः । मध्यमेति - अपकृष्टनैगममते 'लोके गौः' इति प्रतीत्या लोकादेरप्यवच्छेदकत्वं भवति, अत्युत्कृष्टनैगमे तु यत्राकाशदेशे गोरवगाहस्तस्यावच्छेदकत्वमतो मध्यमेति–मध्यमो यो नैगमभेदो नैगमविशेषस्तत्कृतस्तत्प्रयुक्तो यो वैज्ञानिकसम्बन्धः, तेन गोष्टकोण एव तथात्वमवच्छेदकत्वम्, एवकारेण गोष्टस्यावच्छेदकत्वव्यवच्छेदः प्राप्त एवोपदर्शयति-न तु गोष्ठ इति, प्रतीत्यनुसारेणैव वैज्ञानिकसम्बन्धः कल्प्यत इति मध्यमनैगमेन तत्रावच्छेदकत्वप्रतीत्युपपत्तये तत्रैव वैज्ञानिकसम्बन्धः सम्बन्धतया कल्प्यते, अन्यत्र सतोsपि यथा कथञ्चिद्वैज्ञानिकस्य सम्बन्धत्वं न कल्प्यत इत्यभिसन्धिः । इति एतस्मात् कारणात् । तदुपपत्तिः 'कोणे गौर्न तु गोष्ठे' इति सूक्ष्मेक्षिकाया उपपत्तिः । परमतमाशय प्रतिक्षिपति - न चेति - 'अस्य वाच्यम्' इत्यनेन सम्बन्धः ।