________________
तत्त्वबोधिनीविवृतिविभूषितम् २३१ वाऽपरिस्फूर्ती शुद्धावच्छेदकपुरस्कारेण तत्परिस्फूर्ती तु सावच्छिन्नप्रकृतावच्छेदकपुरस्कारेणैव प्रतिनियतदेशदेशावच्छेदेन वा निर्णयस्त्वावयोः समानः, देशदेशस्य नावच्छेदकत्वमिति तु नील-पीतकपालिकास्थकपालसमवेतघटनीलप्रत्यक्षान्यथानुपपत्त्या परेण वक्तुमशक्यम्, तत्र नीलकपालिकावच्छिन्नचक्षुःसंयुक्तसमवायसम्बन्धावच्छिन्नाधारतयैव.
कोणावच्छिन्नो गोष्ठो गोवृत्तितावच्छेदक इति गोवृत्तितावच्छेदकस्य गोष्ठस्याऽवच्छेदको गृहकोण इत्यस्यापरिस्फूर्तावित्यर्थः, सम्पूर्ण गोष्ठे गोवृत्तित्वं न सम्भवति किन्तु गोष्ठस्य कोण एवेत्यतो गोष्ठस्य न गोवृत्तितावच्छेदकत्वं किन्तु गोष्ठकोणस्येत्येवमवच्छेदकसङ्कोचस्याऽपरिस्फूर्तावित्यर्थः । शुद्धावच्छेदकपुरस्कारेण तत्परिस्फूतौ त्विति'गोष्ठे गौरिदानी वर्तते' इत्येवं प्रतिभासाच्छुद्धगोष्ठावच्छेदेन गोवृत्तित्वस्य परिस्फूर्ती त्वित्यर्थः । 'सावच्छिन्नप्रकृतावच्छेदकपुरस्कारेणैव' इत्यस्य 'निर्णयः' इत्यनेनान्वयः, कोणावच्छिन्नगोष्ठलक्षणावच्छेदकपुरस्कारेणैव गवि वर्तमानकालवृत्तित्वस्य निर्णय इत्यर्थः । प्रतिनियतदेशदेशावच्छेदेन वा निर्णय इति प्रतिनियतो देशो गोष्ठः, तस्य देशः कोणः, तदवच्छेदेन गवि वर्तमानकालवृत्तित्वस्य निर्णय इत्यर्थः । आवयोः पशुपाल-जैनयोः । देशदेशस्य नावच्छेदकत्वमिति तु परेण वक्तुमशक्यमित्यन्वयः, तत्र हेतुः-'नील' इत्यादि 'अनुपपत्त्या' इत्यन्तम् , एका नीलकपालिका द्वितीया पीतकपालिका, ताभ्यामारब्धो यः कपालः स न नीलो न वा पीतः किन्तु चित्ररूप. वानेव नील-पीतकपालिकास्थकपालः, तत्समवेतघटोऽपि चित्ररूपवानेव, एवमप्यवयवगतनीलस्य तत्र प्रत्यक्ष 'नीलो घटः' इत्येवमुपजायते, तस्य नीलस्य कपालानाश्रितत्वान्न कपालस्यावच्छेदकत्वं किन्तु कपालिकाया एवेति तादृशप्रत्यक्षान्यथानुपपत्त्या देशदेशस्यावच्छेदकत्वं स्वीकरणीयमित्यभिप्रायः । तत्र तादृशनीलप्रत्यक्षस्थले । नीलेति-नीलकपालिकावच्छिन्नचक्षुःसंयुक्तः कपालः तत्समवायो घटे इति तत्सम्बन्धावच्छिन्नाधारता घटे वर्तते इति तयैव घटे सतो नीलस्य प्रत्यक्षोपपादनादित्यर्थः । देशदेशस्योभयोरप्यवच्छेदकत्वस्वीकारे यो विशेषस्तमुपदर्शयति-इयांस्तु विशेष इति । तदधिकरणस्यैव तदवच्छेदकत्वमिति नियमेन देशदेशस्य स्वसमवायिसमवायात्मकपरम्परासम्बन्धलक्षणस्वाभाविकसम्बन्धेन स्वसंयुक्तसमवायात्मकपरम्परासम्बन्धलक्षणस्वाभाविकसम्बन्धेन वाऽवच्छेद्यसम्बन्धित्वादवच्छेदकत्वमित्याह