________________
२३० अनेकान्तव्यवस्थाप्रकरणम् । त्रयसम्भव इति विवेकः, इत्थं च यत् पशुपालेनोक्तम्- "सर्वत्रानेकान्ताभ्युपगमे 'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च' इति । वचनमेवानुपपन्नम् , स्व-पररूपयोरप्यनिर्धारणाद्” इति, तदपास्तं द्रष्टव्यम् , पूर्वनयविशेषेण स्व-पररूपयोः सङ्कोच-विकासावुपजीव्य तदनुसारेणैव सप्तभङ्गीप्रवृत्तेः अवच्छिन्नसप्रतिपक्षधर्मद्वयाभिधानस्थले एकान्ततोऽवच्छेदकनिर्णयस्य तवाप्यभावात्, 'इदानीं गोष्ठे गौर्न तु वाजिशालायाम्' इत्यादौ शुद्धगोष्ठादेरप्यवच्छेदकत्वस्य निर्णेतुमशक्यत्वात् , 'इह कोणे गोष्ठे गौर्नापरकोणे' इति प्रतिसन्धाने एतत्कोणावच्छिन्नगोष्ठस्यैतकोणस्य वा तथात्वसम्भवादवच्छेदकावच्छेदकस्याऽवच्छेदकसङ्कोचस्य
दिष्टाभ्यां ताभ्यामवक्तव्य इत्युपन्यासः, तथा च यो निजपर्यायस्तेन सत्त्वमित्यतः 'स्यादस्त्येव' इति प्रथमो भङ्गः, यश्च परपर्यायः तेनासत्त्वमित्यतः 'स्यान्नास्त्येव' इति द्वितीयो भङ्ग इत्येवमर्थादवगतौ भङ्गत्रयावगतिः सुलभवेत्यभिसन्धिः । इत्थं च वसतिदृष्टान्तनीत्या स्वपरपर्यायसङ्कोचाश्रयणेन षोडशप्रकारेण भङ्गत्रयसमर्थनतः सप्तभङ्गीप्रवृत्तिव्यवस्थितौ च ।
यत् पशुपालेनोक्तं तदपास्तं द्रष्टव्यमित्यन्वयः । पशुपालोक्तिमेवोल्लिखति-सर्वत्रानेकान्ताभ्युपगम इति । स्व-पररूपयोरप्यनिर्धारणा-दितीति-यत् स्वरूपं तदपि न सर्वथेति भवति तदपि पररूपमनेकान्तदृष्ट्या, एवं यदपि पररूपं तदपि न सर्वथेति स्यात् तदप्यनेकान्तदृष्ट्या स्वरूपमित्यत एतत् स्वरूपमेवैतत् पररूपमेवेत्येवं निर्धारणाऽसम्भवादित्यर्थः । तत्प्रतिक्षेपहेतुमुपदर्शयति पूर्वमिति । तदनुसारेणैव स्व-पररूपसङ्कोच-विकासानुसारेणैव । परमतेऽप्यवच्छेदकसङ्कोचविकासाश्रयणं सावच्छिन्नसप्रतिपक्षधर्मद्वयैकत्रावस्थानोपपत्तये आवश्यकमित्याहअवच्छिन्नेति । तवाऽपि पशुपालाभिधानपरस्यापि । एकान्ततोऽवच्छेदकनिर्णयाभावे हेतुमुद्भावयति-इदानीमिति । शुद्धगोष्ठादेरवच्छेदकत्वं कुतो निर्णतुमशक्यमित्यपेक्षायामाह-इहेति । तथात्वसम्भवात् गोवृत्तितावच्छेदकत्वसम्भवात् । यश्च प्रकारान्तरेणावच्छेदकनिर्णयो भवता कर्तुं शक्यः सोऽस्माभिरपि कर्तुं शक्य • इत्याह-अवच्छेदकावच्छेदकस्येति-अस्य 'अपरिस्फूर्ती' इत्यनेनान्वयः, एत