________________
तत्त्वबोधिनीविवृतिविभूषितम्
२२९ .. अत्र च निजाऽर्थान्तरपर्यायैरनेकान्तोपजीविनैगम-व्यवहारविशुद्धतारतम्योपदर्शकवसतिदृष्टान्तनीत्या यथाक्रमसङ्कुचद्भिः क्रमेण युगपच्चाऽऽदिष्टैरुपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि भङ्गाः सम्भवन्ति, द्वादशादिषु पञ्चसु च स्वतत्रैकान्ते नयार्पितेस्तैः प्रत्येकं समुदाये च सर्वथाऽवक्तव्यत्वभङ्ग एवोत्तिष्ठते, स च बाधितः सन् कथञ्चिदवक्तव्यत्वे पर्यवस्यति, तस्य कथञ्चित्त्वं च भङ्गद्वयाधीनम्, इत्थं च त्रयाणां भङ्गानां क्रमाभिधानमेव सम्प्रदायसिद्धमिति ॥ व्युत्पत्तिमहिम्ना ततोऽपि स्याद्वादविदुषो भङ्ग
सामान्यतस्त्रयो भङ्गा दर्शिताः, तेभ्यश्च यथोक्तषोडशप्रकारा उपलक्षिता भवन्ति तथा दर्शयति--अत्र चेति-उक्तगाथायां चेत्यर्थः । निजा-ऽर्थान्तरपर्यायैः निजपर्याया-ऽर्थान्तरपर्यायैः, 'यथाक्रममसङ्कुचद्भिः' इति 'क्रमेण युगपञ्चाऽऽदिष्टैः' इति च 'निजाऽर्थान्तरपर्यायैः' इत्यस्यैव विशेषणम् । कथं यथाक्रमसङ्कुचद्भिः ? इत्यपेक्षायामुक्तम्-अनेकान्तोपजीवीत्यादि-अनेकान्तोपजीवी यो नैगमव्यवहारयोर्विशुद्धतारतम्योपदर्शको वसतिदृष्टान्तः, तन्नीत्येत्यर्थः । क्रमेणाऽऽदिष्टैराद्यभङ्गद्वयं युगपदादिष्टैस्तृतीयो भङ्ग इति कृत्वा तैः 'त्रयोऽपि भङ्गाः सम्भवन्ति इति । कुत्र ? इत्यपेक्षायामुक्तम्-'उपदर्शितेषु षोडशस्ववक्तव्यविकल्पेषु मध्ये एकादशसु' इति । अवशिष्टेषु द्वादशादिषु पञ्चसु विकल्पेषु तैः किं भवति ? इत्यपेक्षायामाह-द्वादशादिष्विति । तैः निजाऽर्थान्तरपर्यायैः । प्रत्येकं निजपर्याये अर्थान्तरपर्याये युगपद्विवक्षितपर्यायद्वये च । समुदाये च युगपद्विवक्षितोभयपर्याये च, यथा च अवक्तव्यत्वभङ्गस्योत्थानं तथोपदर्शितं प्राक् । स च सर्वथाऽवक्तव्यत्वभङ्गश्च । तस्य अवक्तव्यत्वस्य । एवं सति त्रयोऽपि भङ्गाः क्रमेणैवोपदर्शनीयाः, न त्ववक्तव्यत्वभङ्ग एव प्रथमत एव दर्शनीयः, सम्प्रदायोऽपि च तथैवेत्याह-इत्थं चेति-अवक्तव्यत्वे कथञ्चित् त्वस्य भङ्गद्वयाधीनत्वे चेत्यर्थः, केनापि प्रकारेण वक्तव्यत्वे सत्येवाऽवक्तव्यत्वं कथञ्चित् स्यादित्यतो वक्तव्यत्वोपदर्शकमाद्यभङ्गद्वयममिधातव्यमित्यभिसन्धिः । व्युत्पत्तिमहिम्ना व्युत्पत्तिविशेषसामर्थेन। ततोऽपि केवलैकावक्तव्यत्वभङ्गोद्भावनतोऽपि, यतस्तत्राऽयं निजपर्यायोऽयं च परपर्याय इत्युद्भावनपुरस्सरमेव युगपदा