________________
तत्त्वबोधिनीविवृतिविभूषितम् २३३ परेषामपि नाऽनुपपत्तिरिति वाच्यम् , एवं सति सम्पूर्णकोणेऽपि तदभावात्' 'कोणे गोष्ठे गौः' इत्यस्याप्यनुपपत्तेर्नयविशेषकृतसम्बन्धं विना न विचित्रप्रतीत्युपपत्तिरित्यधिकं नयरहस्यादौ ॥
एते च त्रयो भङ्गा गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्तः सकलादेशाः स्यात्कारपदलाञ्छितैतद्वाक्याद् विवक्षा
wwwwww
सा च 'कोणे गौर्न तु सम्पूर्णगोष्ठे' इति सूक्ष्मेक्षिका पुनः । यावदिति-यत्किञ्चित्कोणावच्छिन्नगोष्ठ एव गौर्विद्यते न तु यावत्कोणावच्छिन्नगोष्ठ इति गोष्ठनिष्ठगवावच्छेदकताया अवच्छेदकत्वं यत्किञ्चित्कोण एव न तु यावत्कोणेष्विति तेषु गवावच्छेदकतावच्छेदकत्वपयोप्यभावमवगाहत इत्यस्यार्थस्य परमतेऽपि घटमानत्वात् परेषामपि पशुपालानुयायिनामपि । 'कोणे गौन तु सम्पूर्ण गोष्ठे' इति सूक्ष्मेक्षिकाया नानुपपत्तिरित्यर्थः । यावत्कोणेषु गोरभावात् सम्पूर्णगोष्ठेषु न गोस्तथा कोणस्य यावदवयवेष्वभावात् सम्पूर्णकोणेऽपि न गौरिति 'कोणे गोष्ठे गौः' इति प्रतीतेरप्यनुपपत्तरिति निषेधहेतुमुपदर्शयति-एवं सतीति । तथा च नयविशेषकृतसम्बन्धाश्रयणेन विचित्रप्रतीत्युपपत्तिर्न तु नयविशेषकृतसम्बन्धं विनेत्याहनयविशेषेति । विशेषजिज्ञासुभिरस्मत्कृतनयरहस्यादिकमवलोकनीयमित्युपदिशतिअधिकं नयरहस्यादाविति ॥
सप्तभङ्गयां केषुचिद् भङ्गेषु सकलादेशत्वं केषुचिद् विकलादेशत्वमिति मतमावेदयितुमाह-एते चेति-अनन्तरोपदर्शिताश्चेत्यर्थः । गुणेति-प्रथमभङ्गो नास्तित्वादिधर्माणां गुणभावेनाऽस्तित्वधर्मस्य प्रधानभावेन प्रतिपादकः, द्वितीयभङ्गोऽस्तित्वादिधर्माणां गुणभावेन नास्तित्वधर्मस्य प्रधानभावेन प्रतिपादकः, तृतीयभङ्गोऽस्तित्वादिधर्माणां गुणभावेनाऽवक्तव्यत्वधर्मस्य प्रधानभावेन प्रतिपादक इत्येवं गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्त आद्यास्त्रयो भङ्गाः सकलादेशा भवन्तीत्यर्थः । स्यात्कारेति-स्यात्कारः 'स्याद्' इत्येवंस्वरूपं यत् पदं तेन लाञ्छितं घटितं यदेतद् वाक्यं 'स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादवक्तव्य एव घटः' इत्येवं वरूपं वाक्यं तस्मात् स्यात्कारपदलाञ्छितैतद्वाक्यात् , अस्य 'प्रतीतेः' इत्यत्रान्वयः, विवक्षाकृतः प्रधानभावो यस्य स विवक्षाकृतप्रधानभावः, यो धर्मों यदा विवक्ष्यते स धर्मस्तदा प्रधानो भवतीति सत्त्वस्य... विवक्षया प्रथमभङ्गः