________________
२३४ अनेकान्तव्यवस्थाप्रकरणम् । कृतप्रधानभावसदायेकधर्मात्मकस्यापेक्षिताऽपराशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य प्रतीतेः। विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थस्य प्रतिपादका वक्ष्यमाणास्तु चत्वारो विकलादेशा इति केचित् सङ्गिरन्ते । ते चेमे 'स्यादस्ति नास्ति च घटः' इति प्रथमो विकलादेशः १, ‘स्यादस्त्यवक्तव्यश्च घटः' इति द्वितीयः २, 'स्यान्नास्ति चावक्तव्यश्च घटः' इति तृतीयः ३, 'स्यादस्ति च नास्ति चावक्तव्यश्च घटः' इति चतुर्थः ४ । तत्र वस्तुनो देशो यदैकः सत्त्वेऽपरश्चासत्त्वे आदिश्यते तदा प्रथमो विकलादेशः । आह च
उपतिष्ठत इति, एवमसत्त्वस्य विवक्षया द्वितीयभङ्ग उपतिष्ठत इति प्रथमभङ्गे सत्त्वस्य प्राधान्यं द्वितीयभङ्गेऽसत्त्वस्य प्राधान्यम् , एवमन्यत्रापि ज्ञेयम् , तथा च विवक्षाकृतप्रधानभावो यः सदायेकधर्मो भावप्रधाननिर्देशात् सत्त्वाद्येकधर्मस्तदात्मकस्य, अस्य वाक्यार्थस्य' इत्यनेनान्वयः, अपेक्षिता येऽपरे तद्भिन्ना अशेषधर्मास्तैः क्रोडीकृतस्य वाक्यार्थस्य प्रतीतेर्भवति गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकत्वं 'स्यादस्त्येव' इत्यादिभङ्गत्रयाणामिति सकलधर्मात्मैकवस्तुप्रतिपादकत्वलक्षणसकलादेशत्ववत्वात् ते सकलादेशा इत्यर्थः। 'स्यादस्त्येव नास्त्येव' इत्यादिचतुर्थपञ्चम-षष्ठ-सप्तमभङ्गाश्चत्वारो विकलादेशा इत्युपदर्शयति-विवक्षाविरचितेतिचतुर्थ-पञ्चम-षष्ठभङ्गेषु धर्मद्वयस्य विवक्षाविरचितत्वं सप्तमभङ्गे धर्मत्रयस्य विवक्षाविरचितत्वम् , तच्च प्रधानभावेन विवक्षितत्वमिति बोध्यम् । 'केचित् सङ्गिरन्ते' इत्युक्त्या अन्ये देवसृरिप्रभृतयः सप्तापि भङ्गाः सकलादेशा विकलादेशाश्चेत्यामनन्तीत्यस्य संसूचनम् । 'ते चेमे' इत्यादिना चत्वारोऽपि विकलाः प्रत्येकं स्वरूपोदृङ्कनेन विभाविताः । चत्वारो विकलादेशा यथोपतिष्ठन्ते तथा क्रमेणोपदर्शयतितत्रेति-चतुर्पु विकलादेशेषु मध्य इत्यर्थः । .. वस्तुन एकदेशस्य सत्त्वेऽपरदेशस्याऽसत्त्वे आदेशे सति प्रथमो विकलादेशः प्रवर्तत इत्यत्र सम्मतिसंवादमाह-आह चेति । अह० इति “अथ देशः सद्भावे