________________
तत्त्वधिबोनीविवृतिविभूषितम् "अह देसो सब्भावे देसोऽसब्भावपञ्जवे णियओ। ___ तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ॥”.
[सम्मतितकें का० १, गा० ३७] अस्यार्थः-यदा देश:-वस्तुनोऽवयवः, सद्भावे अस्तित्वे, नियत:सन्नेवायमित्येवं निश्चितः, अपरश्च देशोऽसद्भावपर्याये-नास्तित्व एव नियतः-असन्नेवायमित्यवगतः, अवयवेभ्योऽवयविनः कथञ्चिदभेदादवयवधर्मेस्तस्यापि तथा व्यपदेशः, यथा-कुण्ठो देवदत्त इति, ततोऽवयवसत्त्वाऽसत्त्वाभ्यामवयव्यपि सदसन् सम्भवति, ततस्तद् द्रव्यमस्ति च नास्ति चेति भवति, आदेशेन-उभयप्रधानावयवभागेन विशेषितं यस्मात् तथा हि-यदवयवेन विशिष्टधर्मेण आदिश्यते तदस्ति च नास्ति च भवति, तथा स्वद्रव्य-क्षेत्र-काल-भावैर्विभक्तो हि घटोऽस्ति परद्रव्यादिरूपेण च स एव नास्तीति । आद्ययोरपि भङ्गयोः स्वद्रव्य-परद्रव्याभ्यां विभज्यत एव घट इति तत्समुदायात् कोऽस्य विशेष इति चेत् ? न-'तत्रास्तित्व-नास्तित्वावच्छेदकद्वारा विभागेऽदेशोऽसद्भावपर्यवे नियतः । तद्व्यमस्ति नास्ति च आदेशविशेषितं यस्मात्" । इति संस्कृतम् । अस्यार्थः एतत्सम्मतिवचनस्यार्थः । देशोऽस्तित्वे नियत इत्यस्य फलितमाह-सन्नेवेति । देशयोः सद्भावाऽसद्भावनियतत्वे देशिनस्तथाव्यपदेशः कथमित्यपेक्षायामाह-अवयवेभ्य इति । तस्यापि अवयविनोऽपि । ततः अवयवधभैरवयविनो व्यपदेशतः । उभयप्रधानेति-अस्तित्व-नास्तित्वोभयप्रधानेत्यर्थः । उपपादयति-तथाहीति । स्वद्रव्यादिभिरस्तित्वस्य परद्रव्यादिभिर्नास्तित्वस्य चाश्रयणेन विभक्तोऽपि घटस्तथा व्यपदिश्यत इत्याह-तथेति । अत्र तटस्थः शङ्कते-आद्ययोरपीति । तत्समुदायात् प्रथम-द्वितीयभङ्गसमुदायात् । अस्य तुरीयभङ्गस्य प्रथम भङ्गे वस्तुगतमेवास्तित्वम् , द्वितीयभङ्गे वस्तुगतमेव नास्तित्वम् , तयोरवच्छेदकद्वारा विभजनम् , तुरीयेऽवयवगतयोश्च तयोरवयवद्वारा विभज्यावयविन्युपदर्शनमित्यस्ति विशेष इति समाधत्ते-नेति। तत्र प्रथम-द्वितीयभङ्गसमुदाये। अत्र