________________
२३६
अनेकान्तव्यवस्थाप्रकरणम् ।
P
प्यवयवद्वारा विभागाभावात्, अत्र तु तद्वारा विभागेन विशेषात् तद्वारा विभागकरण एवं किं बीजमिति चेत् ?, सावयवनिरवयवात्मकवस्तुनस्तथाप्रतिपत्तिजनकसावयवनिरवयवत्वशबलैक स्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिक् ॥ ४ ॥
एकस्य देशस्य सत्त्वेनाऽपरस्य च युगपदुभयथादेशे द्वितीयो विकलादेशः । आह —
"सब्भावे आइट्ठो देसो देसो य उभयहा जस्स ।
तं अस्थि अवत्तव्वं च होइ दवियं विअप्पवसा || " [ सम्मतितर्फे का० १, गा० ३८ ] अस्यार्थः – सद्भावे - अस्तित्वे, यस्य - घटादेर्धर्मिणः, देशः- धर्मः,
तु तुरीयभङ्गे पुनः । तद्वारा अवयवद्वारा । शङ्कते -तद्वारेति - प्रथम-द्वितीययोरस्तित्वनास्तित्वावच्छेदकद्वारा तुरीयेऽवयवद्वारेत्यर्थः, 'किं बीजम्' इत्यत्र किम आक्षेपार्थत्वान्नास्ति बीजमित्यर्थः । वस्तुनः सावयव - निरवयवोभयस्वरूपत्वम् । तत्र निरवयवत्वप्रतिपत्तिकालेऽवयवस्तस्य न विवक्षितोऽतो निरवयववस्तुप्रतिपत्तिप्रवणप्रथमद्वितीयभङ्गयोरस्तित्वनास्तित्वावच्छेदकद्वारा विभजनम्, सावयववस्तुप्रतिपत्तिप्रवणतुरीयभङ्गेऽवयवद्वारा विभजनम्, ततश्चैकवाक्यतया सावयव - निरवयवात्मकवस्तुप्रतिपत्तिजनकवाक्यत्वेन सप्तभक्त्याः प्रामाण्यं सुरक्षितं भवतीत्यस्त्येव बीजमिति समाधत्ते - सावयवेति । तथा प्रतिपत्तीति - सावयव - निरवयवप्रतिपत्तीत्यर्थः, सप्तभङ्ग्या आद्यभङ्गत्रयावच्छेदेन निरवयवत्वं तुरीयादिभङ्गावच्छेदेन सावयवत्वमित्येवं सावयवत्व-निरवयवत्वशबलं यत् सप्तभङ्ग्यात्मकमेकवाक्यम्, तत्त्वेन प्रामाण्यरक्षार्थमुक्तदिशा विभागकरणमित्यर्थः ।
'स्यादस्त्येव स्वादवक्तव्य एव च घटः इति पञ्चमं भङ्गं द्वितीयविकला देश भावयति - एकस्येति । 'सत्त्वेन ' ' इत्यस्य आदेशे' इत्यनेनान्वयः । उभयथा सत्त्वाऽसत्त्वाभ्याम् । तत्र सम्मतिगाथां प्रमाणयति-आह चेति सब्भावे इति" सद्भावे आदिष्टो देशो देशश्च उभयथा यस्य । तदस्ति अवक्तव्यं च भवति द्रव्यं विकल्पवशात्” ॥ इति संस्कृतम् । अस्यार्थः - अनन्तरोपदर्शितसम्मतिवच
wwwww