________________
२३७
तत्त्वबोधिनीविवृतिविभूषितम् आदिष्टोऽवक्तव्यानुविद्धः, स्वभावे, अन्यथा तदसत्त्वात् , नापरधर्माऽप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वमस्य सम्भवति, खरविषाणादेवि, तस्यैवापरो देश उभयथा-अस्तित्वनास्तित्वप्रकाराभ्याम्, एकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यस्वभावे, अन्यथा तदसत्त्वप्रसक्तेः, नह्यस्तित्वाभावे उभयाविभक्तता शशशृङ्गादेरिव तस्य सम्भविनी, प्रथमतृतीयकेवलभङ्गव्युदासस्तथाविवक्षावशादत्र कृतोऽत्र द्रष्टव्यः, तत्र प्रथम-तृतीययोर्भङ्गयोः परस्पराविशेषणीभूतयोः प्रतिपाद्येनाधिगन्तुमि
नस्यार्थः । 'अवक्तव्यानुविद्धः, स्वभावे' इति मुद्रितपाठो न युक्तः, किन्तु 'अवक्तव्यानुविद्धस्वभावे' इति पाठः सङ्गतः। अन्यथा अवक्तव्यानुविद्धस्वभावे धर्मान्तरस्यास्तित्वस्यादेशाभावे । तदसत्त्वात् अस्तित्वस्यासत्त्वात् । एतदेवोपपादयतिनहीति-अस्य 'सम्भवति' इत्यनेनान्वयः । अस्य वस्तुनः, अपरधर्मोऽवक्तव्यत्वम् , तेनाप्रविभक्ततामनुविद्धतामन्तरेण वस्तुनो घटादेर्विवक्षितस्यास्तित्वधर्मस्यास्तित्वं नहि सम्भवतीत्यर्थः । खरविषाणादेरिवेति-यथा खरविषाणादेर्धर्मान्तरानुविद्धस्वभावविकल स्यास्तित्वस्यास्तित्वं न तथेत्यर्थः । तस्यैव यस्यैको देशोऽस्तित्वे आदिष्टस्तस्यैव घटादेवस्तुनः । अन्यथा अस्तित्वानुविद्धेऽवक्तव्यत्वस्वभावे आदेशाभावे । तदसत्त्वप्रसक्तेः अवक्तव्यत्वासत्त्वप्रसङ्गात् । अत्रैव युक्तिमाहनहीति-अस्य 'सम्भविनी' इत्यनेनान्वयः । उभयाविभक्तता युगपद्विवक्षितास्तित्वनास्तित्वोभयानुविद्धता । शशशृङ्गादेरिव शशशृङ्गादेर्यथाऽस्तित्वाभावादस्तित्व-नास्तित्वोभयानुविद्धता नास्ति तथा। तस्य घटादेवस्तुनः । 'स्यादस्त्येव' इति प्रथमे केवलमस्तित्वं विवक्षितम् , 'स्यादवक्तव्य एव' इति तृतीये युगपदस्तित्वनास्तित्वोभयमेव विवक्षितम् , पञ्चमभङ्गे तु अस्तित्वानुविद्धमस्तित्वनास्तित्वोभयमस्तित्वनास्तित्वोभयानुविद्धमस्तित्वं च विवक्षितमतः प्रथम-तृतीयाभ्यामस्य भेदं इत्यावेदयितुमाह-प्रथमेति-केवलो यः प्रथमभङ्गः, केवलो यस्तृतीयभङ्गः, तयोय॒दासः, तथा विवक्षावशाद अस्तित्वानुविद्धास्तित्व-नास्तित्वोभयविवक्षावशाद् अत्र तृतीयभङ्गे अस्य 'तथाविवक्षावशाद्' इति पूर्वेणान्वयः । 'अत्र' इति द्वितीयस्य 'व्युदासः कृतः' इत्यनेनान्वयः । प्रथम-द्वितीयभङ्गयोर्ये विवक्षे ताभ्यामन्यान विवक्षेति स्पष्टयति-तत्रेति-प्रथम-तृतीय-पञ्चमभङ्गेषु मध्य इत्यर्थः, परस्परा