________________
२३८ अनेकान्तव्यवस्थाप्रकरणम् । ष्टत्वात्, प्रतिपादकेनापि तथैव विवक्षितत्वाद्, अत्र तु तद्विपर्ययादनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माक्रान्तत्वेन वक्तुमिष्टत्वात् तद्रव्यमस्ति चावक्तव्यं च भवति, तद्धर्मविकल्पवशाद् धर्मयोस्तथापरिणतयोस्तथा व्यपदेशे धर्म्यपि तद्बारेण तथैव हि व्यपदिश्यते । __ अत्रेदमवधेयम्-परस्परविशेषणीभूतयोरस्तित्वाऽवक्तव्यत्वयोरत्र न विवक्षा, चैत्रो 'रक्तदण्डवान्' इतिवत् 'स्यादस्त्यवक्तव्यश्च घटः' इत्यतः 'अस्तित्वविशिष्टाऽवक्तव्यत्ववान् घटः' इत्यबोधात्, किन्तु चकारबलाद् 'एकत्र द्वयम्' इति न्यायेन 'विदेशे दण्डी कुण्डली च'
विशेषणीभूतयोः' इत्यस्यानन्तरम् 'अस्तित्वा-ऽवक्तव्यत्वयोः' इति दृश्यम् । प्रतिपाद्येनेति-यं पुरुषं बोधयितुमुक्तवाक्यं प्रयुङ्क्ते प्रतिपादकस्तेन पुरुषेणेत्यर्थः । तथैव परस्पराविशेषणतयैव । विवक्षितत्वात् अस्तित्वा-ऽवक्तव्यत्वयोर्विवक्षितत्वात् । अत्र तु पञ्चमभङ्गे पुनः । तद्विपर्ययात् प्रथम-तृतीयभङ्गतो विपर्ययात् । एतदेव स्पष्टयति-अनन्तेति । 'विकल्पवशाद' इत्यस्यैव 'तद्धर्मविकल्पवशाद्' इति परिष्कृत्य कथनम् । धर्मयोस्तथा विवक्षावशात् तथाप्रयोगः समुचितः कथं धर्मिणस्तथाप्रयोग इत्यपेक्षायामाह-धर्मयोरिति । तद्वारेण तथा परिणतधर्मद्वारेण । ___ स्वाभिप्रायमत्रोपदर्शयति-अत्रेदमवधेयमित्यादिना । अत्र तृतीयभङ्गे । चैत्रो रक्तदण्डवान् इतिवदिति-अयं च व्यतिरेकेण दृष्टान्तः, तेन 'चैत्रो रक्तदण्डवान्' इत्यत्र यथा रक्तत्वविशिष्टदण्डवान् चैत्र इत्यवबोधो न तथेत्यर्थः । यद्युक्तभङ्गतोऽस्तित्वविशिष्टावक्तव्यत्वप्रकारकबोधो न भवति तर्हि कीदृशस्ततो बोध इति पृच्छति-किन्त्विति । उत्तरयति-चकारेति-'स्यादस्ति अवक्तव्य एव च घटः' इत्यत्र च शब्दोपादानबलादित्यर्थः । एकत्र द्वयमिति न्यायेनेति-एकविशेष्यतानिरूपितप्रकारताद्वयनिरूपको बोधो यत्र भवति तत्रोक्तन्यायः प्रवर्तते, समुच्चये प्रकारताभेदाद् विशेष्यताया भेदोऽत्र तु नैवमिति ततो विशेषः। विदेश इतिहस्तावच्छेदेन दण्डसंयोगः, कर्णावच्छेदेन कुण्डलसंयोग इत्येवं विभिन्नदेशावच्छेदेने