SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २३८ अनेकान्तव्यवस्थाप्रकरणम् । ष्टत्वात्, प्रतिपादकेनापि तथैव विवक्षितत्वाद्, अत्र तु तद्विपर्ययादनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माक्रान्तत्वेन वक्तुमिष्टत्वात् तद्रव्यमस्ति चावक्तव्यं च भवति, तद्धर्मविकल्पवशाद् धर्मयोस्तथापरिणतयोस्तथा व्यपदेशे धर्म्यपि तद्बारेण तथैव हि व्यपदिश्यते । __ अत्रेदमवधेयम्-परस्परविशेषणीभूतयोरस्तित्वाऽवक्तव्यत्वयोरत्र न विवक्षा, चैत्रो 'रक्तदण्डवान्' इतिवत् 'स्यादस्त्यवक्तव्यश्च घटः' इत्यतः 'अस्तित्वविशिष्टाऽवक्तव्यत्ववान् घटः' इत्यबोधात्, किन्तु चकारबलाद् 'एकत्र द्वयम्' इति न्यायेन 'विदेशे दण्डी कुण्डली च' विशेषणीभूतयोः' इत्यस्यानन्तरम् 'अस्तित्वा-ऽवक्तव्यत्वयोः' इति दृश्यम् । प्रतिपाद्येनेति-यं पुरुषं बोधयितुमुक्तवाक्यं प्रयुङ्क्ते प्रतिपादकस्तेन पुरुषेणेत्यर्थः । तथैव परस्पराविशेषणतयैव । विवक्षितत्वात् अस्तित्वा-ऽवक्तव्यत्वयोर्विवक्षितत्वात् । अत्र तु पञ्चमभङ्गे पुनः । तद्विपर्ययात् प्रथम-तृतीयभङ्गतो विपर्ययात् । एतदेव स्पष्टयति-अनन्तेति । 'विकल्पवशाद' इत्यस्यैव 'तद्धर्मविकल्पवशाद्' इति परिष्कृत्य कथनम् । धर्मयोस्तथा विवक्षावशात् तथाप्रयोगः समुचितः कथं धर्मिणस्तथाप्रयोग इत्यपेक्षायामाह-धर्मयोरिति । तद्वारेण तथा परिणतधर्मद्वारेण । ___ स्वाभिप्रायमत्रोपदर्शयति-अत्रेदमवधेयमित्यादिना । अत्र तृतीयभङ्गे । चैत्रो रक्तदण्डवान् इतिवदिति-अयं च व्यतिरेकेण दृष्टान्तः, तेन 'चैत्रो रक्तदण्डवान्' इत्यत्र यथा रक्तत्वविशिष्टदण्डवान् चैत्र इत्यवबोधो न तथेत्यर्थः । यद्युक्तभङ्गतोऽस्तित्वविशिष्टावक्तव्यत्वप्रकारकबोधो न भवति तर्हि कीदृशस्ततो बोध इति पृच्छति-किन्त्विति । उत्तरयति-चकारेति-'स्यादस्ति अवक्तव्य एव च घटः' इत्यत्र च शब्दोपादानबलादित्यर्थः । एकत्र द्वयमिति न्यायेनेति-एकविशेष्यतानिरूपितप्रकारताद्वयनिरूपको बोधो यत्र भवति तत्रोक्तन्यायः प्रवर्तते, समुच्चये प्रकारताभेदाद् विशेष्यताया भेदोऽत्र तु नैवमिति ततो विशेषः। विदेश इतिहस्तावच्छेदेन दण्डसंयोगः, कर्णावच्छेदेन कुण्डलसंयोग इत्येवं विभिन्नदेशावच्छेदेने
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy