________________
तत्त्वबोधिनीविवृतिविभूषितम् २३९ इत्यत्र चैत्रे दण्ड-कुण्डलयोरिव प्रकृते घटेऽस्तित्वा-ऽक्तव्यत्वयोः परस्पराऽविशेषणीभूतयोरेव भानात् । एकत्र द्वयभाने द्वयोः सामानाधिकरण्येन वैशिष्ट्यमप्यौत्सर्गिकं भासत इति चेत् ; तर्हि सम्भूयभङ्गद्वयजनितबोधेऽपि तद्भानमावश्यकमिति कस्ततो विशेषः ? । वस्तुतो मिलिताभ्यां प्रथम-तृतीयाभ्यामस्तित्वविशिष्टे घटेऽवक्तव्यवैशिष्ट्यज्ञानं सुकरम्, द्वितीयमिलनस्यापि 'अधिकं प्रविष्टं(टे)न तु तद्धानिः' इति न्यायेनाऽदुष्टत्वात् , प्रकृते तु 'एकत्र द्वयम्' इति न्यायेनापि न बाधः, देशेऽसत्त्वस्य देशेऽवक्तव्यत्वस्य च विवक्षणादिति विपरीतो विशेषः, परस्परविशेषणीभूतयोरेकवाक्येन बोध्यत्वप्रकारकतात्पर्यविषयतया तु विशेषो न भङ्गान्तरनिमित्तं फलाऽविशेषात्, अन्यथा विशे
त्यर्थः, दण्डनिष्ठप्रकारतानिरूपिता सती कुण्डलनिष्ठप्रकारतानिरूपिता या चैत्रनिष्ठविशेष्यता तन्निरूपको बोधो यथा 'दण्डी कुण्डली च चैत्रः' इत्यत्र तथा 'स्यादस्त्य. वक्तव्यश्च घटः' इत्यत्रास्तित्वनिष्ठप्रकारतानिरूपिता सती अवक्तव्यनिष्ठप्रकारतानिरूपिता या घटत्वावच्छिन्नविशेष्यता तन्निरूपको बोध इति बोध्यम् । दण्ड-कुण्डलयोरिवेति-दण्ड-कुण्डलयोर्यथा परस्पराविशेषणीभूतयोरेव भानं तथेत्यर्थः । अत्र शङ्कते-एकत्रेति । समाधत्ते-तीति । सम्भूय मिलित्वा । भङ्गद्वयेतिप्रथम-तृतीयभङ्गद्वयेत्यर्थः । तद्भानं द्वयोः सामानाधिकरण्येन वैशिष्ट्यभानम् । कस्ततो विशेष इति-मिलितप्रथम-तृतीयभङ्गद्वयतः पञ्चमभङ्गस्य को विशेषः ? न कोऽपि विशेषः स्यादित्यर्थः । मिलितप्रथम-तृतीयाभ्याम् ‘एकत्रद्वयम्' इति न्यायेन बोधजनकस्य पञ्चमभङ्गस्य विशेषोपदर्शनायाह-वस्तुत इति । प्रकृते तु पञ्चमभङ्गे पुनःनि बाधः एकविशेष्यतानिरूपितप्रकारताद्वयनिरूपकबोधेन बाधः। पराभिमतविशेषस्य भङ्गान्तरनिमित्तत्वं न भवतीत्यावेदयति-परस्परेति । अन्यथा फलविशेषाभावेऽप्युक्तविशेषस्य भङ्गान्तरनिमित्तत्वाभ्युपगमे । तथात्वप्रसङ्गात् भङ्गान्तरनिमित्तत्वप्रसङ्गात् तथा चास्तित्वस्य विशेषणत्वेऽवक्तव्यत्वस्य विशेष्यत्वे च यथा 'स्यादस्ति स्यादवक्तव्यश्च घटः' इति भङ्गस्तथाऽवक्तव्यत्वस्य विशेषणत्वेऽस्तित्वस्य विशेष्यत्वे 'स्यादक्तव्य एव स्यादस्त्येव च' इत्यपि भङ्गः स्यादिति भावः । तथापि