SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २४० अनेकान्तव्यवस्थाप्रकरणम् । षण-विशेष्यभावकामचारस्यापि तथात्वप्रसङ्गात्, तथापि देशविशेषितपरस्परविशेषण-विशेष्यभावेनात्र विशेषो द्रष्टव्यः, प्रकृतेऽस्त्यवक्तव्यपदयोर्देशास्तित्वविशिष्टदेशावक्तव्यत्वविशिष्टयोरेव तात्पर्यानुपपत्त्या लक्षणास्वीकारात्, तयोश्च तादात्म्येन वैशिष्टयबाधस्यैतद्भङ्गफलत्वात् , अयमेव परस्परानुवेधार्थोऽपि द्रष्टव्यः, चतुर्थभङ्गेऽप्युभयप्रधानावयवभागेनैव विशेषोपदेशादत्राग्रेऽपि तस्यैव विशेषस्याऽविशिष्टत्वादिति दिग् ॥ ५ ॥ देशेऽसत्त्वस्य देशे च युगपदुभयोर्विवक्षणे षष्ठः, आह च"आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स ॥ तं णत्थि अवत्तव्यं च होइ दवियं वियप्पबसा" [सम्मतितर्के का० १ गा० ३९] उक्तदिशामिलितप्रथम-तृतीयभङ्गाभ्यां पञ्चमभङ्गस्य विशेषाभावेऽपि । देशविशेषितेति-सम्भूयप्रथम-तृतीयभङ्गद्वयजनितबोधे पञ्चमभङ्गजन्यबोधे चैकधर्मवैशिष्ट्यमपरधर्मे भासते, परं सम्भूयभङ्गद्वयजन्यबोधेऽस्तित्व-ऽवक्तव्यत्वयोर्देशाविशेषितयोः परस्परविशेष्य-विशेषणभावभानम् , पञ्चमभङ्गे तु देशविशेषितास्तित्व-देशविशेषितावक्तव्यत्वयोर्विशेष्य-विशेषणभावेन भानमित्येवं विशेषो द्रष्टव्य इत्यर्थः । ननु प्रत्येकभङ्गयोः पञ्चमभङ्गे च देशोपस्थापकपदाभावेऽविशिष्टे कथं देशविशेषितास्तित्वादिवैशिष्ट्यभानं पञ्चमभङ्गे इत्यत आह-प्रकृत इति-पञ्चमभङ्ग इत्यर्थः । तयोश्च देशास्तित्वविशिष्टदेशावक्तव्यत्वविशिष्टयोश्च । एतद्भङ्गफलत्वात् पञ्चमभङ्गफलत्वात् । अयमेव उक्तदिशालक्षणया विशिष्टद्वयाभेदान्वयबोध एव । चतुर्थभङ्गेऽपि 'स्यादस्त्येव स्यान्नास्त्येव च घटः' इति भङ्गेऽपि । अत्र पञ्चमभङ्गे । अग्रेऽपि षष्ठ-सप्तमभङ्गयोरपि। 'स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति षष्ठभङ्गं दर्शयति-देशेऽसत्त्वस्येति-अस्य 'विवक्षणे' इत्यनेनान्वयः । अत्र सम्मतिवचनसंवादमाह-आह चेति । आइट्ठो० इति “आदिष्टोऽसद्भावे देशो देशश्चोभयथा यस्य । तन्नास्त्यवक्तव्यं च
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy