________________
तत्त्वबोधिनीविवृतिविभूषितम् રરક ज्ञातुमशक्यत्वाज्ज्ञप्तिप्रतिबन्धिकैवेयमनवस्थेति कश्चित् , तन्न-इत्थमपि 'गुडशुण्ठी'न्यायेनानवच्छिन्नानेकान्ते दोषाभावात्, सावच्छिन्नानेकान्तवादेऽपि सूक्ष्मावच्छेदकजिज्ञासोपरम एवानेकान्तप्रयोगान्तरपरिश्रमोपरमेऽनवस्थानवकाशादिति दिग् ।।
नन्वनेकान्तस्य व्यापकत्वे 'षड् जीव-निकायास्तद्घाते चाधर्म' इत्यत्राप्यनेकान्तः स्यादिति चेत् ? अत्राहुःनेकान्तस्यैकान्तप्रतियोगिकानेकान्तस्यैकान्तत्वानैकान्तत्वधर्मद्वयसमावेशनिबन्धनानेकान्तस्य वा परिज्ञातुमशक्यत्वात् परिच्छिन्नतया ज्ञातुमशक्यत्वाज्ज्ञप्तिप्रतिबन्धिकैव ज्ञप्तिविरोधिन्येव । इयमनवस्था अनेकान्तेऽनेकान्तस्तत्राऽप्यनेकान्त इत्येवंरीत्योपजायमानाऽनवस्था। इति एवम् । कश्चित् अविज्ञाततत्त्वः पण्डितम्मन्यो ब्रूते इत्यर्थः । उक्ताक्षेपं प्रतिक्षिपति-तन्नेति। इत्थमपि अनवस्थानादेकान्तगर्भानेकातस्य परिज्ञातुमशक्यत्वेनानेकान्तानेकान्तानवस्थाया ज्ञप्तिप्रतिबन्धकत्वेऽपि । गुडशुण्ठीन्यायेनेति-"गुडोऽपि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति शुण्ठीनागरभेषजे ॥" [वीतरागस्तोत्रे ] इत्यादिवचनाद् गुडमात्रस्य कफहेतुत्वं शुण्डीमात्रस्य पित्तहेतुत्वमित्येवमेकैकस्य विभिन्नखभावत्वेऽपि गुड-शुण्ठीमिश्रणतो जायमानस्य जात्यन्तरखभावस्य पदार्थस्य कफपित्तविकारोपशमहेतुत्वमिति न्यायेनैकान्तत्वा-ऽनेकान्तत्वोभयसंवलतो जायमानाखण्डस्वरूपस्यानेकान्तस्य वैकान्तनियामकस्वरूपपररूपानवस्थानप्रयुक्तैकान्तानवस्थादोषसम्पर्ककलङ्कितत्वं प्रत्येकपक्षदोषस्य जात्यन्तरात्मके वस्तुन्यसम्भवादित्यर्थः । सखण्डानेकान्तस्वीकारेऽप्येतदपेक्षयैकान्त एतदपेक्षयाऽनेकान्तश्चैवं तत्राप्येकान्ते एतदपेक्षयैकान्त एतदपेक्षयाऽनेकान्तश्च, अनेकान्तेऽप्यमुकापेक्षयैकान्तोऽमुकापेक्षयाऽनेकान्तश्चेत्येवं दिशा जायमानेऽनेकान्तपरम्परास्वरूपे सुदूरं गत्वा यत्रैवैकान्ताऽनेकान्तयोः सूक्ष्मावच्छेदकजिज्ञासा नोपजायते तत्रैवानेकान्तप्रयोगान्तरायासोऽपि न क्रियते इत्येतावतैव तत्प्रवाहपरिश्रान्तौ नानवस्थालतोल्लास इत्याह-सावच्छिन्नानेकान्तवादेऽपीति। : अनेकान्तस्य व्यापकत्वमसहमानः: परः शङ्कते-नन्विति । षडिति-'षड् जीवाः, षड् निकायाः, जीवघाते चाधर्मः' इति खकीयसिद्धान्तेऽपि 'जीवाः षदसंख्यका एकसंख्यकाश्च, निकायाः षट्संख्यका एकसंख्यकाश्च; जीवघातेऽधर्मो