________________
३२४
अनेकान्तव्यवस्थाप्रकरणम् ।
"
वारः स्यात्, यद्वा यथा नैयायिकादीनां 'घटाभावो ऽतिरिक्त एव, तदभावश्च घट एव, तृतीयाभावश्चाद्य एव चतुर्थश्च द्वितीय एव इत्यादिरीत्या नानवस्था तथाऽस्माकम् अनेकान्तः १, अनेकान्तानैकान्त एकान्तः २, तदनेकान्त आद्य एव तदनेकान्तश्च द्वितीय एवेति तृतीय- चतुर्थाद्यनेकान्तानामाद्य द्वितीययोरेव पर्यवसानात्
काSनवस्था नाम
एकान्तनियामकस्व-पररूपयोरनवस्थानादेकान्तगर्भानेकान्तस्य परि
गम्यमाने सति निरुक्तानवस्था स्यात्, यदा तु सकलवस्तुविषयक पुरुषधौरेय ज्ञानमेव प्रमा, तद्विषयत्वं प्रमेयत्वमेकमेव, तच्च स्ववृत्त्यपीति तदाऽऽत्माश्रय एव नानवस्था, एवमनेकान्तत्वमप्यनुगतं सकलसाधारणम्, अनेकान्तेऽनेकान्तोऽपि स्वाधारीभूताSनेकान्तात्मक एवेति प्रकृतेऽपि नानवस्था, आत्माश्रयश्चान्योन्याश्रय - चक्रकाऽनवस्थानामेकतरस्यावश्यम्भावे लाघवादुपेयत इति न दूषणं यथा तत्र तथा प्रकृतेऽपीति बोध्यम् । प्रकृतेऽनवस्थैव नावतरति कुतोऽस्या दूषणत्वमित्युपदर्शयितुं कल्पान्तरमाहयद्वेति । अतिरिक्तएव भावस्वरूपाद् भिन्न एव । तदभावश्च घटाभावभावश्च । तृतीयाभावश्च घटाभावाभावाभावश्च । आद्य एव घटाभाव एव । चतुर्थश्च घटाभावाभावाभावाभावश्च । द्वितीय एव घटाभावाभाव एव, घट एवेति यावत् । अस्माकं जैनानाम्, मतम् इति शेषः । अनेकान्तः एकान्तनिषेधो घटाभावस्थानीय एकान्तादन्य एव । अनेकान्तानेकान्तो घटाभावाभावस्थानीय एकान्त एव । तदनेकान्तः एकान्तखरूपानेकान्ताने कान्तस्यानेकान्तो स्थानीयः । आद्य एव एकान्तनिषेधलक्षणो योऽनेकान्तः प्रथमस्तदात्मक एव । तदनेकान्तश्च तृतीयानेकान्तस्याने कान्तश्चतुर्थो घटाभावाभावाभावाभावस्थानीयः । द्वितीय एव एकान्तस्वरूपो योऽनेकान्तानेकान्तस्तदात्मक एव । इति एवं प्रकारेण, 'काऽनवस्था नाम' इत्यत्र किम आक्षेपार्थकत्वान्नैवानवस्थेत्यर्थः । अत्र कस्यचिदाक्षेपं प्रतिक्षेप्तुमुपन्यस्यति एकान्तेति - अनेकान्ते प्रतियोगिविधया प्रविष्टस्य सत्त्वाद्येकैकस्वरूपस्यैकान्तस्य स्वरूपापेक्षया सत्त्वं पररूपापेक्षयाऽसत्त्वमित्येवं व्यवस्थाकारित्वेन नियामकयोः स्व-पररूपयोरनेकविधत्वेनानवस्थानादियत्तया परिच्छेत्तुमशक्यत्वान्नियामकस्यानवस्थितत्वे तन्नियम्यस्यैकान्तस्याप्यनवस्थितत्वे नैकान्तगर्भा -
घटाभावाभावाभाव