________________
तत्त्वबोधिनीविवृतिविभूषितम् ३२३ ग्रीमहिम्ना तादृशस्यैवोत्पत्तेर्मिथोऽनपेक्षणादुत्पत्तिविरोधिताया अपि वक्तुमशक्यत्वात् , न चोत्पत्ति-ज्ञप्त्यन्यतराप्रतिबन्धिकाप्यनवस्थादूषणम् , यत्तार्किकाः-"मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम् ॥” [ ] इति, न चेदेवं तदा प्रमेयत्वे प्रमेयत्वाद्युपगमेऽप्यनवस्थादोषो दुर्निनामुत्तरोत्तरैकान्तानेकान्तेषु तेषां च पूर्वपूर्वैकान्तानेकान्तेषु चोत्पत्तावनपेक्षणात् , उत्पत्तौ यदि परस्परमेतेषामेकान्तानेकान्तानां प्रवाहपतितानामपेक्षा स्यात् तदा यावन्न पूर्वपूर्वेषामुत्पत्तिस्तावन्न तदपेक्षाणामुत्तरोत्तरेषामुत्पत्तिर्यावन्नोत्तरोत्तरेषामुत्पादस्तावन्न तदपेक्षाणां पूर्वपूर्वेषामेषामुत्पत्तिरित्येवमुक्तानवस्थाया उत्पत्तिविरोधित्वं स्यात् , यदा तु तादृशस्य स्याद्वादानेकान्तस्य खसामग्रीमहिम्नैवोत्पत्तिस्तदा न तद्विरोध इत्याह-उत्पत्तिविरोधिताया अपीति । प्रमाणादेव तादृशानेकान्तस्य प्रतीत्या न ज्ञप्तिविरोधः, स्वसामग्रीत उत्पत्त!त्पत्तिविरोध इत्येवमुत्पत्ति-ज्ञप्त्यन्यतराप्रतिबन्धिकेयमनवस्था न भवति दूषणमित्याह-न चेति-अस्य 'दूषणम्' इत्यनेनान्वयः । उत्पत्ति-ज्ञप्यन्यतरप्रतिबन्धिकैवानवस्था यमालम्ब्य प्रवृत्ता तमुपहन्तीत्यतः सैव दूषणभावमञ्चति नान्येत्यत्र तार्किकाणां संवादमाह-यत् तार्किका इति । मलेतिहि यतः, मूलक्षयकरीमिति-यदालम्बनेन प्रवृत्ताऽनवस्था तदेवानवस्थाया मूलम् , यथा विशेषे विशेषस्वीकारे तत्रापि विशेषः, एवं तत्रापीत्यनवस्था स्यात् , तया चानवस्थया प्रथमविशेषोऽप्यपैति, यतः स्वत एव व्यावृत्तस्वरूपो विशेष उपेयते, विशेष विशेषसद्भावे च स्वगतविशेषेणैवाश्रयीभूतविशेषस्यान्यतो व्यावृत्तरिति स्वतोव्यावृत्तत्वधर्मस्यासाधारणस्याभावे सोऽपि न भवेत् , एवं द्वितीयविशेषादेरपि स्वगतविशेषत एव व्यावृत्तिरिति तस्याप्यसाधारणधर्मव्यपगमाद् व्यपगम इति मूलस्य प्रथमविशेषादेः क्षयकरी, अनवस्थितविशेषपरम्परोपनिपातलक्षणाऽनवस्था, तां दूषणं दूषणात्मिकां न्यायनिष्णाताः प्राहुरित्यर्थः । न चेदेवं यद्येवं नाभ्युपगम्येत, अर्थात् या काचिदनवस्था प्रोल्लसेत् सा सर्वाऽपि दूषणमेवेत्यभ्युपगम्येत । प्रमेयत्वे प्रमेयत्वं तत्रापि प्रमेयत्वमित्यवश्यमभ्युपेयमन्यथा प्रमेयत्वस्य केवलान्वयित्वमेव न स्यात् , प्रमेयत्वाभावाच्च शशशृङ्गादिवदसदेव प्रमेयत्वमापद्येत, ततश्च प्रमेयोऽपि न भवेत् , एवं च साऽप्यनवस्था दोषः स्यादित्याह-तदेति-'अयं घटः, अयं पटः' इत्यादिप्रमात्मकज्ञानविषयत्वं घट-पटादीनां प्रमेयत्वम् , प्रमेयत्वे प्रमेयत्वं तु 'इदं प्रमेयत्वम्' इत्याकारकप्रमाविषयत्वमित्येवं प्रथमप्रमेयत्व-तद्गतप्रमेयत्वयोर्भेदेऽभ्युप