________________
३२२
अनेकान्तव्यवस्थाप्रकरणम् । "दवट्ठयाए सासया पजवट्ठयाए असासया" { ] इत्येवं चैकान्ताभिधायकस्याविरोधेन । ___ न चैवमव्यापकोऽनेकान्तवादः, स्यात्पदसंसूचितानेकान्तगर्भस्यैवैकान्तस्वभावत्वाद्, अनेकान्तस्यापि स्यात्कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् , न चानवस्था देश-कात्या॑भ्यामवयवा-ऽवयविरूपस्य वस्तुन इव स्याद्वादस्याप्येकान्ता-ऽनेकान्तात्मकस्यैव प्रमाणादेव प्रतीतेः, भिन्नैकान्ता-ऽनेकान्तावलम्बनेऽप्यस्या ज्ञप्तिविरोधित्वाभावात् स्वसामयति-रयण० इति-"रत्नप्रभा स्यात् शाश्वती स्यादशाश्वती" । इत्येवं इत्येवंवरूपस्य, अनेकान्तप्रतिपादकस्याविरोधेनेत्यन्वयः । दव्वठ्ठ० इति-"द्रव्यार्थतया शाश्वती पर्यायार्थतयाऽशाश्वती।"
न चेति-एवमुपगमे सति अनेकान्तवादोऽव्यापको न च भवतीत्यर्थः । द्रव्यार्थनयेन शाश्वतैकान्तस्य पर्यायार्थनयेनाशाश्वतैकान्तस्याभ्युपगमेऽपि स्यात्पदो. पादनतोऽनेकान्तखभावत्वस्याप्येकान्ते लाभात्, एकान्तोऽप्येकान्तत्वा-ऽनेकान्तत्वधर्मद्वययोगादनेकान्तः, एवमनेकान्तोऽपि स्यात्कारलाञ्छनवाक्येन स्यात्पदसंसूचितैकान्तस्वभावतयाऽपि प्रतीयते, इत्येनेकान्तोऽप्यनेकान्तत्वैकान्तत्वधर्मद्वययोगादनेकान्त इत्येवमनेकान्तवादस्य तत्रापि सद्भावादिति निषेधहेतुमुपदर्शयति-स्यात्पदेति । अनेकान्ते एकान्तोऽनेकान्तश्च, तत्राप्येकान्ते एकान्तोऽनेकान्तश्च, अनेकान्तेऽनेकान्त एकान्तश्च, एवं तत्राप्येकान्ता-ऽनेकान्तयोः प्रत्येकमेकान्तानेकान्तखभावावित्येवं दिशाऽनवस्था स्यादित्याशङ्कां प्रतिक्षिपति-न चेति । यथा वस्तुनोऽभिधेयस्य देशतोऽवयवरूपत्वं कााचावयविरूपत्वमित्येवमनेकान्तत्वं प्रमाणात् प्रतीयते तथा तदभिधायकस्याप्युक्तदिशैकान्तानेकान्तात्मकत्वेनानेकान्तत्वं प्रमाणादेव प्रतीयते, प्रतीयमाने चैकान्तत्वा-ऽनेकान्तत्वे स्याद्वादात्मकानेकान्तादभिन्ने एवेति नानवस्थापीति निषेधहेतुमुपदर्शयति-देश-कात्या॑भ्यामिति । स्याद्वादानेकान्ते ये उक्तदिशैका. न्तानेकान्ते ते ततो भिन्ने, तयोरपि प्रत्येकमेकान्तानेकान्ते भिन्ने इत्येवमनवस्थाया भावेऽपि सा प्रमाणप्रतिपन्ना न दूषणभावमञ्चति, ज्ञप्युत्पत्त्योरविरोधित्वादित्याहभिन्नैकान्तेति । अस्याः अनवस्थायाः। तादृशस्यैव अनवस्थितैकान्तानेकान्तपरम्पराश्रितस्यैव स्याद्वादानेकान्तस्य । मिथोऽनपेक्षत्वात् पूर्वपूर्वकान्तानेकान्ता