________________
अनेकान्तव्यवस्थाप्रकरणम् ।
“णियमेण सद्दहंतो, छक्काए भावओ ण सद्दहइ । हंदी अपज्जवेसु वि, सद्दहणा होइ अविभत्ता ||" [ सम्मतिकाण्ड० ३, गाथा - २८ ] नियमेन-अवधारणेन, षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट्कायान्, भावतः - परमार्थतः, न श्रद्धत्ते, जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात्, जीव- पुद्गलप्रदेशानां परस्पराऽविनिर्भागवृत्तित्वाज्जीवप्रदेशानां स्यादजीवत्वं प्रत्येकं प्राधान्यविवक्षया स्यादनिकायत्वम्, सूत्रविहितन्यायेन प्रवृत्तस्याप्रमत्तस्य न हिंसेति 'तद्
३२६
wwwww
भवति धर्मश्च भवति' इत्येवमनेकान्तः स्यादिति शङ्कार्थः । एतत्समाधानपरतया सम्मतिगाथामवतार्य दर्शयति- अत्राहुरिति । णियमेण० इति - “नियमेन श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते । हंदि अपर्यवेष्वपि श्रद्धानं भवत्यविभक्तम् ॥” इति संस्कृतम् । विवृणोति–नियमेनेति - अस्य विवरणम् -' अवधारणेन' इति । अवधारणगर्भश्रद्धानाकारमुल्लिखति षडैवैते जीवा कायति । इत्येवम् उक्ताकारप्रकारेण | 'भावतः' इत्यस्य 'परमार्थतः' इत्यर्थः । जीवानां कायानां च षट्संख्यकत्वस्य सद्भावेन तदवधारणेन श्रद्धा कुतो न परमार्थतः श्रद्धेत्यपेक्षायामाह-जीवराश्यपेक्षयेति - जीवसामान्यापेक्षयेत्यर्थः । तेषां जीवानाम् । एकत्वात् एकसंख्य कत्वात्, तथा चावधारेण षट्संख्यातिरिक्तसंख्याव्यवच्छेद एकत्वसङ्ख्यासद्भावे सति न सन्निति, एवं जीवा एव काया एवेत्यवधारणमपि न सम्भवति जीवस्याप्यजीवत्वात् कायस्याप्यकायत्वादित्याह जीव- पुद्गलप्रदेशानामिति - जीवप्रदेशानां पुद्गलप्रदेशाविनिर्भागवृत्तित्वे जीवानां पुद्गलतादात्म्याध्यासनिबन्धनाजीवत्वं प्राप्तमित्याशयः । समुदायभावे सति कायत्वं पार्थक्ये न कायत्वमित्येकदेशप्राधान्यविवक्षायां कायस्याप्यनिकायत्वमित्याह - प्रत्येकमिति 'जीवघातेऽधर्मः' इत्यत्राप्यनेकान्तः, यतः प्रमत्तस्य प्राणव्यपरोपणं हिंसा, अप्रमत्तस्य प्राणव्यपरोपणं तु न हिंसेति वस्तुस्थितौ प्रमत्तस्य सतः प्राणव्यपरोपणे सति प्राणव्यपरोपणकर्त्तुः प्रमत्तस्याधर्मो भवति, अप्रमत्तस्य प्राणव्यपरोपणे जातेऽपि प्राणव्यपरोपणकर्तुरप्रमत्तस्याधर्मो न भवतीत्याह-सूत्रविहितन्यायेनेति । तद्धातेऽपि जीवघातेऽपि ।