________________
तत्त्वबोधिनीविवृतिविभूषितम् ૨૨૭ घातेऽपि स्यादधर्मः' इति न भावसम्यग्दृष्टिरसौ, द्रव्यसम्यग्दृष्टिस्तु स्यादेवान्यदर्शनासगृहनिवृत्त्या जिनवचनरुचिस्वभावस्य संक्षेपसम्यक्त्वलक्षणत्वात् , तथा च पारमर्षम्-.
"अणभिग्गहियकुदिट्ठी, संखेवरुइ त्ति होइ णायवो। अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥" ।
[सम्मतिकाण्ड० २८, गाथा-२६] ततोऽपर्यायेष्वपि-न विद्यन्तेऽचिमुर्मुरादयो विवक्षितपर्याया येषु पुद्गलेषु तेष्वपि, अप्यविभक्तश्रद्धानं यत् तदपि भावत एव भवेद् 'अर्चिष्मानयं भावो भूतो भावी वा' इति, नहि भूत-भाविपर्यायोपरक्तवाक्यं द्रव्यतः सत्यं भवति, ‘सविशेषेण' इति न्यायाद् भूत
स्यादधर्म इति-अधर्मः स्यादित्येवमवगच्छन् पुरुषः भावसम्यग्दृष्टिर्न भवति, तर्हि स किं मिथ्यादृष्टिः ? नैवमपीत्याह-द्रव्यसम्यग्दृष्टिस्तु स्यादेवेति। तत्र हेतुमुपदर्शयति-अन्येति-मीमांसकादिदर्शनस्य यज्ञे हिंसातोऽधर्मो न भवत्येवंरूपोऽसद्हः कदाग्रहस्तस्य निवृत्त्याऽभावेन, जिनवचनरुचिर्यदेव जिनेनोक्तं तदेव सत्यमित्येवंरूपा या श्रद्धा तत्स्वभावस्य संक्षेपसम्यक्त्वलक्षणत्वादित्यर्थः । उक्तार्थे पारमर्षवचनसंवादमाह-तथा चेति । अणभिगाहिय० इति-"अनभिग्रहिक कुदृष्टिः संक्षेपरुचिरिति भवति ज्ञातव्यः। अविशारदः प्रवचने अनभिग्रहिकश्च शेषेषु"॥ इति संस्कृतम् । सम्मतिगाथोत्तरार्द्ध विवृणोति-तत इति । 'अपर्यायेष्वपि' इत्यस्य विवरणम्-'न विद्यते' इत्यारभ्य 'तेष्वपि' इत्यन्तम् । तदपि अविभकश्रद्धानमपि । भावत एव भवेत् भावतः श्रद्धानमेव तत् । कीदृशं तच्छ्रद्धानमित्यपेक्षायां तदाकारमुल्लिखति-'अर्चिष्मानयं भावो भूतो भावी वा' इतीति 'माऽस्त्विदानीमयं भावोऽर्चिष्मान् किन्तु अतीतकाले आसीदेवार्चिष्मान्, भविष्यत्काले वा भविष्यत्येवायमर्चिष्मान्' इति कृत्वा भावतः सत्योऽयमिति । द्रव्यश्रद्धानमिदं कस्मान्न भवतीत्यपेक्षायामाह-नहीति-अस्य ‘भवति' इत्यनेनान्वयः । हि यतः। सविशेषणेति-'सविशेषणौ विधि-निषेधौ विशेषणबाधे