________________
तत्त्वबोधिनीविवृतिविभूषितम्
२१३ समानसंवित्संवेद्यतया परद्रव्यादिनाऽसत्त्वलाभसम्भवात् तद्बोधनाय द्वितीयभङ्गप्रयोगोऽनर्थक इति चेत् ? न-समानसंविसंवेद्यताया मानसबोध एव तन्त्रत्वात् , 'शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते' इति न्यायात् परद्रव्यादिनाऽसत्त्वं शब्देन बोधयितुं द्वितीयभङ्गोपन्याससार्थक्यात् ॥
अथवा 'सर्व सर्वात्मकम्' इति सांख्यमतव्यवच्छेदार्थमर्थान्तरप्रतिषेधो विधीयते, तत्र तस्य प्रतीत्यभावात् ॥ १ ॥ ऽपीत्यर्थः । तद्वोधनाय परद्रव्यादिनाऽसत्त्वबोधनाय । शाब्दस्य शब्दनियन्त्रितार्थकत्वेन यच्छब्दस्य योऽर्थः स एव तत्र भासते, न तु तत्समानसंवित्संवेद्योऽप्यन्यः, मानसबोध एव च समानसंवित्संवेद्यस्यापि भानम् , मानसबोध एव च समानसंवित्तिसंवेद्यताया अर्थान्तरभाने प्रयोजकत्वमिति समाधत्ते-नेति । तत्रत्वात् प्रयोजकत्वात् शाब्दे शब्दोपस्थितार्थस्यैव भानमित्यत्र न्यायमेव मानतयोपदर्शयति-शाब्दीति हि यतः । शाब्दी शब्दसमुत्थिता । आकाङ्क्षा जिज्ञासा यथा 'द्वारम्' इति कर्मबोधकद्वितीयाविभक्त्यन्तद्वारपदाद् द्वारकर्मत्वबोधे जाते क्रियाकाङ्क्षा-उद्घाटन-पिधानादिक्रियाकाङ्क्षा, शब्देनैव क्रियाबोधकपदेनैव, ‘उद्घाटय, पिधेहि' इत्यादिपदेनैव, पूर्यते जिज्ञासितविषयावबोधनेन निवर्तते, अत एव न तत्र मानान्तरत उपस्थितोद्घाटनादिक्रियान्वयेनाऽर्थाध्याहारावलम्बिप्रभाकरानुयायिसम्मतेन तदाकाङ्क्षानिवृत्तिः, किन्तु पदाध्याहारवादिभट्ट-नैयायिकादिसम्मतपिधेहीत्यादिक्रियापदज्ञान-पुरस्सरतजन्योपस्थितिविषयपिधानाद्यर्थान्वयबोधत एव तदाकाङ्क्षानिवृत्तिः, इत्थं च 'स्यादस्त्येव घटः' इत्याद्यभङ्गेन वद्रव्यादिना घटस्यास्तित्वे बोधिते परद्रव्यादिना घटस्य किमसत्त्वमित्याकाङ्क्षाया समुद्भवति तन्निवृत्तये परद्रव्यादिनाऽसत्त्वबोधकस्य 'स्यान्नास्त्येव घटः' इति द्वितीयभङ्गस्य प्रयोग आवश्यक इत्याह-परद्रव्यादिनेति ।
साङ्ख्यमतखण्डनपरतया द्वितीयभङ्गोपन्यासस्य सार्थक्यं दर्शयति-अथवेति । यद्यपि कण्ठतः 'सर्वं सर्वात्मकम्' इति न साङ्ख्यरुपदर्शितम् , तथापि ‘सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिः' इत्युक्तत्रिगुणात्मकं प्रधानम् , ततः साक्षात् परम्परया प्रभवमात्मभिन्नं सर्वम् , कार्यकारणयोरभेदाच्च सर्व कार्यजातं प्रकृत्यात्मकम् , ततश्च