________________
२१४
अनेकान्तव्यवस्थाप्रकरणम् ।
यद्वा, नाम-स्थापना-द्रव्य-भावभिन्नेषु विधित्सिता-ऽविधित्सितप्रकारेण प्रथम-द्वितीयौ भङ्गौ।
तत्प्रकाराभ्यां युगपदवाच्यः, तथाभिधेयपरिणामरहितत्वात् तस्य, यतो यद्यविधित्सितरूपेणापि घटः स्यात् प्रतिनियतनामादिभेद
तदभिन्नामिन्नस्य तदमिन्नत्वम्' इति न्यायेनैककार्या-भिन्नप्रकृत्यभिन्नत्वात् कार्यान्तरस्य तत्कार्याभिन्नत्वमित्येवं दिशा सर्वमात्मभिन्नमात्मभिन्नसर्वात्मकमिति भवति सायमतम् , तझ्यवच्छेदार्थ प्रथमभङ्गेनाऽस्तित्वेनावबोधिते घटे द्वितीयभङ्गेन पटाद्यर्थान्तरप्रतिषेधो विधीयत इत्याह-सर्वमिति । तत्र घटे । तस्य पटाद्यर्थान्तरप्रतिषेधस्य । प्रतीत्यभावात् प्रथमभङ्गेन ज्ञानाभावात् ।
प्रकारान्तरेण प्रथम-द्वितीयभङ्गौ समर्थयति-यद्वेति । विधित्सितेति-नामघटरूपतया यदा विधातुमिच्छितो घटस्तदा नामघटात्मना 'घटोऽस्त्येवं इति प्रथमो भङ्गः, तदानीं स्थापनाघटाद्यात्मना स न विधातुमिच्छित इत्यविधित्सितेन स्थापनाघटाद्यात्मना प्रतिषेद्धुमेवेष्टो भवतीति तदवगतये स्थापनाद्यात्मना 'घटो नास्त्येव' इत्येवं प्रथम-द्वितीयभङ्गावित्यर्थः । _ 'स्यादवक्तव्य एव घटः' इति तृतीयभङ्गं प्रकृते सङ्गमयति-तत्प्रकाराभ्यामिति-नामात्मना यद् अस्तित्वम्, स्थापनाद्यात्मना यद् नास्तित्वम् , तल्लक्षणप्रकाराभ्यामित्यर्थः । कथं तत्प्रकाराभ्यां युगपदवाच्यः ? इत्यपेक्षायां हेतुमुपदर्शयति तथेति । तस्य अर्थस्य, विधित्सितरूपावच्छिन्नसत्त्वा-ऽविधित्सितरूपावच्छिन्नाऽसत्त्वोभयरूपेण युगपद्वाच्यपरिणामरहितत्वादित्यर्थः । यदि विधित्सिता-ऽविधित्सितोभयरूपेणाऽभिधेयपरिणामवानर्थोऽभ्युपेयेत, तर्हि घट इत्येवं वाच्यः स स्यात् ? अघट इत्येवं वाच्यः ?, आये य एव नामघटः स एव स्थापनाघटादिरपि स्यात् , तथा च 'अयं नामघटः, अयं च स्थापनाघटः, अयं पुनर्द्रव्यघटः, अयं तु भाव घटः' इत्येवं प्रतिनियतनामादिभेदव्यवहारस्याभावः प्रसज्येत, व्यवहारतश्च प्रतिनियतव्यवह्रियमाणवस्तुस्वरूपस्य व्यवस्था भवति, व्यवहाराभावे च सापि न स्यादिति विधित्सितनामघटोऽपि न व्यवतिष्ठतेति सर्वाभावप्रसङ्गः, द्वितीये अविधित्सितरूपेणेव विधित्सितरूपेणाप्यघटत्वे घटस्याभावे घटनिबन्धनव्यवहारस्योच्छेदः स्यात् तथैकस्य घटस्यैवाघटस्यैव वाभ्युपगमे विधेरेव भावे निषेधस्याभावानिषेधसापक्षविधेरप्यभावः,