________________
तत्त्वबोधिनीविवृतिविभूषितम्
२१५
व्यवहाराऽभावप्रसक्तिः, तथा च विधित्सितस्याऽपि नात्मलाभ इति सर्वाऽभाव एव भवेत्, तथा यदि विधित्सितप्रकारेणाप्यघटः स्यात् तदा तन्निबन्धनव्यबहारोच्छेदप्रसक्तिरेव, एकपक्षाभ्युपगमेऽपि तदितराऽभावे तस्याप्यभाव इत्यवाच्यः । रूपान्तरेण विधित्सा रूपान्तरावच्छिन्नसत्तां न विरुणद्धि रूपवत्त्वेन घटविधित्सायामपि रसवत्त्वेन तत्सत्ताया अनपायादिति चेत् ? न - गुणात्मकसत्ताया गुणरूपत्वेऽपि व्यावहारिक्यास्तस्यास्तदभिधेयपरिणाम पर्यवसितत्वेन विधित्सानुसारित्वात्, एवमग्रेऽप्याक्षेप - परिहारौ द्रष्टव्यौ ॥ २॥
अथवा, स्वीकृत प्रतिनियतप्रकारे तत्रैव नामादिके यः संस्थानादिस्तत्स्वरूपेण घटः, इतरेण चाघट इति प्रथम - द्वितीयौ, ताभ्यां युग
एवं निषेधस्यैव भावे विधेरभावात् तत्सापेक्षनिषेधस्याप्यभाव इत्येवं विधित्सिताविधित्सितोभयरूपेण घट इत्येवं वक्तुं न शक्यते, अघट इत्येवमपि न वक्तुं शक्यत इत्यवाच्य एव घट इत्येवमुपपाद्य दर्शयति-यत इति । तथा च प्रतिनियतनामादिभेदव्यवहाराभावप्रसक्तौ च । तन्निबन्धनेति - घट निबन्धनेत्यर्थः । शङ्कते - रूपान्तरेणेति - नामरूपेण यदा घटस्य विधित्सा तदानीं स्थापनादिरूपेण विधित्सैव तस्य न स्यात्, स्थापनादिरूपेण सत्त्वं तु कुतो न तस्य भवेत् ? अनेकधर्मवत्सु वस्तुषु एकधर्मविधित्सायां नान्यधर्मवत्ता ततोऽपक्रामति, रूप-रसाद्यनेकधर्मवतो घटस्य रूपवत्त्वेन विधित्सायामपि रसवत्त्वेन गन्धवत्त्वादिना च तस्य सत्ताया भावादेवेति शङ्कार्थः । गुणात्मकसत्ता गुणरूपेत्येकगुणवत्वेन विधित्सायामप्यन्यगुणस्य भावेन तदात्मकसत्तायास्तत्र भावेऽपि व्यावहारिकी सत्ता व्यवहारानुसारिणी, यद्रूपेण यस्य यदा विधित्सा तद्रूपेणैव स तदानीं व्यवह्रियते तथैव च सोऽभिधीयत इति व्यावहारिकी सत्ताऽभिधेयपरिणामपर्यवसिता विधित्सानुसारिण्येवेत्यबिधित्सितरूपेणासत्त्वमेवेति समाधत्ते-नेति । तस्याः सत्तायाः । प्रकारान्तरेण प्रथम - द्वितीय-तृतीयभङ्गान् व्यवस्थापयति- अथवेति । स्वीकृतेति - नाम - स्थापना - द्रव्य-भावेषु मध्यात् स्वीकृतैकनामाद्यन्यतरप्रकारे । यः संस्थानादिः नामघटस्याश्रयणे घकारोत्तराsकारोत्तरटकारोत्तराsकाररूपं तत्संस्थानम्, एवमन्यत्रापि । तत्स्वरूपेण निरुक्त