________________
अनेकान्तव्यवस्थाप्रकरणम् ।
पदभिधातुमशक्तेरवाच्यः, विवक्षितसंस्थानादिनेव यदीतरेणापि घटः स्यात् तदैकस्य सर्वघटात्मकत्वप्रसक्तिः, अथ विवक्षितेनाप्यघटः, पटादाविव घटार्थिनस्तत्राप्यप्रवृत्तिप्रसक्तिः, एकान्ताभ्युपगमेऽपि तथाभूतस्य प्रमाणाऽविषयत्वतोऽसत्त्वादवाच्यः ॥ ३ ॥
यदि वा, स्वीकृतप्रतिनियतसंस्थानादौ मध्यावस्था निजं रूपम्, कुशूल - कपालादिलक्षणे पूर्वोत्तरावस्थे अर्थान्तररूपम्, ताभ्यां सद्सत्त्वात् प्रथम-द्वितीयौ, युगपत् ताभ्यामभिधातुमसामर्थ्यादवाच्यलक्षणस्तृतीयो भङ्गः, तथाहि - मध्यावस्थावदितरावस्थाभ्यामपि यदि घटः स्यात् तदा तस्याऽनाद्यनन्तत्वप्रसक्तिः, अथ मध्यावस्थारूपेणा
२१६
संस्थानरूपेण । इतरेण अविवक्षितरूपेण । ताभ्यां विवक्षिताऽविवक्षिताभ्याम् । अवाच्यत्वमेव भावयति-विवक्षितसंस्थानादि वेत्यादिना - सङ्गमना पूर्ववैद् विधेया एकान्ताभ्युपगमेऽपि एकपक्षाभ्युपगमेऽपि ।
उक्तभङ्गत्रयोपपादने तुरीयप्रकारमाह-यदि वेति । स्वीकृतेति - अत्र भावघटस्य जलाहरणादिक्रियाकारिणः स्वीकृतकम्बुग्रीवाद्यवयवसंनिवेशलक्षणसंस्थाने निष्पन्नतादृशसंस्थान वर्तमानावस्था मध्यावस्था घटरूपतया विवक्षितत्वाद् निजं रूपम्, तस्यैव घटस्य या पूर्वावस्था कुशूलादिलक्षणा या च कपालादिलक्षणोत्तरावस्था, ते द्वे अर्थान्तररूपमिति मध्यावस्थारूपेण सत्त्वमाश्रित्य 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः कुशूलकपालादिलक्षणपूवात्तरावस्थानात्मकपररूपेणासत्त्वमुपादाय 'स्यान्नास्त्येव घट:' इति द्वितीयो भङ्गः, युगपत् प्राधान्येन विवक्षिताभ्यां ताभ्यामभिधातुमशक्यत्वादवक्तव्यत्वं समाश्रित्य ' स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । अत्र तृतीयभङ्गमुपपादयति- तथाहीति । मध्यावस्थालक्षणनिजरूप-पूर्वरूपोत्तरावस्थालक्षणपररूपाभ्यां युगपद्विवक्षितोऽर्थः 'घटः' इत्येवं वक्तव्यः ? 'अघटः' इत्येवं वा वक्तव्यः ? तत्राद्ये आह- मध्यावस्थावदिति । तस्य घटस्य । अवस्थात्रयेऽपि घट. इत्येवमभिधेयपरिणतेस्तस्य सद्भावात् त्रिकालवृत्त्याऽनाद्यनन्तत्वप्रसङ्ग इत्यर्थः । द्वितीये त्वाह-अथेति- पूर्वोत्तरावस्थायामघट इत्येवं परिणतिः, मध्यावस्थायाम तथेत्यघटस्य घटाभावस्यैव सर्वदा प्रसक्त्या घटः कदापि न स्यादित्यर्थः । अनयोरेका